Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1422
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

भू꣣या꣡म꣢ ते सुम꣣तौ꣢ वा꣣जि꣡नो꣢ व꣣यं꣡ मा न꣢꣯ स्तर꣣भि꣡मा꣢तये । अ꣣स्मा꣢न् चि꣣त्रा꣡भि꣢रवताद꣣भि꣡ष्टि꣢भि꣣रा꣡ नः꣢ सु꣣म्ने꣡षु꣢ यामय ॥१४२२॥

स्वर सहित पद पाठ

भू꣣या꣡म꣢ । ते꣣ । सुमतौ꣢ । सु꣢ । मतौ꣢ । वा꣣जि꣡नः꣢ । व꣣य꣢म् । मा । नः꣣ । स्तः । अभि꣡मा꣢तये । अ꣣भि꣢ । मा꣣तये । अ꣣स्मा꣢न् । चि꣣त्रा꣡भिः꣢ । अ꣣वतात् । अभि꣡ष्टि꣢भिः । आ । नः꣣ । सुम्ने꣡षु꣢ । या꣣मय ॥१४२२॥


स्वर रहित मन्त्र

भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये । अस्मान् चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥१४२२॥


स्वर रहित पद पाठ

भूयाम । ते । सुमतौ । सु । मतौ । वाजिनः । वयम् । मा । नः । स्तः । अभिमातये । अभि । मातये । अस्मान् । चित्राभिः । अवतात् । अभिष्टिभिः । आ । नः । सुम्नेषु । यामय ॥१४२२॥

सामवेद - मन्त्र संख्या : 1422
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे इन्द्र जगदीश्वर ! (वयम्) तवोपासकाः (वाजिनः) बलवन्तः सन्तः (ते) तव (सुमतौ) सन्मतौ (भूयाम) वर्तिषीमहि, त्वत्तः प्राप्यमाणायाः सुमतेः पात्रतां व्रजेमेत्यर्थः। त्वम् (नः) अस्मान् (अभिमातये२) अभिमानाय (मा स्तः३) न स्तृणु, न वशीकुरु [स्तृञ् आच्छादने, स्वादिः।] (अस्मान्) स्तोतॄन् (चित्राभिः) अद्भुताभिः (अभिष्टिभिः) अभीष्टाभिः आध्यात्मिकीभिर्भौतिकीभिश्च सम्पद्भिः (अवतात्) रक्षतात्। किञ्च (नः) अस्मान् (सुम्नेषु) दिव्येषु आनन्देषु। [सुम्नमिति सुखनाम। निघं० ३।६।] (आ यामय) आयतान् कुरु, रमयेत्यर्थः ॥२॥

भावार्थः - मनुष्यः सुमतिं प्राप्याभिमानं च निरस्य जगदीश्वरेण रक्षितः सन् सुखी जायते ॥२॥

इस भाष्य को एडिट करें
Top