Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1424
ऋषिः - रेणुर्वैश्वामित्रः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

स꣡ भक्ष꣢꣯माणो अ꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢ण उ꣣भे꣢꣫ द्यावा꣣ का꣡व्ये꣢ना꣣ वि꣡ श꣢श्रथे । ते꣡जि꣢ष्ठा अ꣣पो꣢ म꣣ꣳह꣢ना꣣ प꣡रि꣢ व्यत꣣ य꣡दी꣢ दे꣣व꣢स्य꣣ श्र꣡व꣢सा꣣ स꣡दो꣢ वि꣣दुः꣢ ॥१४२४॥

स्वर सहित पद पाठ

सः꣢ । भ꣡क्ष꣢꣯माणः । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । उ꣣भे꣡इति꣢ । द्या꣡वा꣢꣯ । का꣡व्ये꣢꣯न । वि । श꣣श्रथे । ते꣡जि꣢꣯ष्ठा । अ꣣पः꣢ । म꣣ꣳह꣡ना꣢ । प꣡रि꣢꣯ । व्य꣣त । य꣣दि꣢꣯ । दे꣣व꣡स्य꣢ । श्र꣡व꣢꣯सा । स꣡दः꣢꣯ । वि꣣दुः꣢ ॥१४२४॥


स्वर रहित मन्त्र

स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मꣳहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥१४२४॥


स्वर रहित पद पाठ

सः । भक्षमाणः । अमृतस्य । अ । मृतस्य । चारुणः । उभेइति । द्यावा । काव्येन । वि । शश्रथे । तेजिष्ठा । अपः । मꣳहना । परि । व्यत । यदि । देवस्य । श्रवसा । सदः । विदुः ॥१४२४॥

सामवेद - मन्त्र संख्या : 1424
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(सः) असौ परमेश्वरोपासकः (चारुणः) रमणीयस्य (अमृतस्य) उपासनाजन्यस्य दिव्यानन्दस्य (भक्षमाणः)सेवनं कुर्वन् (काव्येन) वेदकाव्येन (उभे द्यावा) द्योतमाने उभे अभ्युदयनिःश्रेयसे ज्ञानकर्मणी वा (वि शश्रथे) विश्लेषयति, विश्लिष्य जानातीत्यर्थः। अपि च (मंहना) महत्त्वेन (तेजिष्ठाः अपः) तेजस्वितमानि कर्माणि (परिव्यत) धारयति, जीवनस्याङ्गतां नयतीत्यर्थः (यदि) यानि खलु (सदः) शिष्यभावेन उपसत्तारः विद्यार्थिनः (देवस्य) ज्ञानप्रकाशकस्य आचार्यस्य (श्रवसा) उपदेश-श्रवणेन (विदुः) जानन्ति ॥२॥

भावार्थः - परमात्मोपासनाया इदं फलं यदुपासकः कर्तव्याकर्तव्ये विविच्य प्रशस्तान्येव कर्माण्याचरति न निन्दितानि ॥२॥

इस भाष्य को एडिट करें
Top