Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1429
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
य꣡ज्जाय꣢꣯था अपूर्व्य꣣ म꣡घ꣢वन्वृत्र꣣ह꣡त्या꣢य । त꣡त्पृ꣢थि꣣वी꣡म꣢प्रथय꣣स्त꣡द꣢स्तभ्ना उ꣣तो꣡ दिव꣢꣯म् ॥१४२९॥
स्वर सहित पद पाठय꣢त् । जा꣡य꣢꣯थाः । अ꣣पूर्व्य । अ । पूर्व्य । म꣡घ꣢꣯वन् । वृ꣣त्रह꣡त्या꣢य । वृ꣣त्र । ह꣡त्या꣢꣯य । तत् । पृ꣣थिवी꣢म् । अ꣣प्रथयः । त꣢त् । अ꣣स्तभ्नाः । उत꣢ । उ꣣ । दि꣡व꣢꣯म् ॥१४२९॥
स्वर रहित मन्त्र
यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥१४२९॥
स्वर रहित पद पाठ
यत् । जायथाः । अपूर्व्य । अ । पूर्व्य । मघवन् । वृत्रहत्याय । वृत्र । हत्याय । तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । उ । दिवम् ॥१४२९॥
सामवेद - मन्त्र संख्या : 1429
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ६०१ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र स एव विषयः प्रकारान्तरेण निरूप्यते ॥
पदार्थः -
हे (अपूर्व्य) स्वयम्भूः ! [पूर्वैः कृतः पूर्व्यः। ‘पूर्वैः कृतमिनयौ च।’ अ० ४।४।११३ इति य प्रत्ययः। न पूर्वैः कृतः अपूर्व्यः स्वयम्भूरित्यर्थः।] (मघवन्) ऐश्वर्यशालिन् इन्द्र जगदीश्वर ! (यत्) यस्मात्, त्वम् (वृत्रहत्याय) विघ्नविनाशाय (जायथाः) अजायथाः, समर्थोऽभवः, (तत्) तस्मात् (पृथिवीम्) भूमण्डलम् (अप्रथयः) व्यस्तृणाः, (उत उ) अपि च (तत्) तस्मादेव च (दिवम्) सूर्यम् (अस्तभ्नाः) स्थिरीकृतवानसि ॥१॥
भावार्थः - यो विघ्नान् विहन्तुं समर्थो भवति स एव हस्तगृहीतेषु कार्येषु सफलो जायते ॥१॥
इस भाष्य को एडिट करें