Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 143
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
9
उ꣣पह्वरे꣡ गि꣢री꣣णा꣡ꣳ स꣢ङ्ग꣣मे꣡ च꣢ न꣣दी꣡ना꣢म् । धि꣣या꣡ विप्रो꣢꣯ अजायत ॥१४३॥
स्वर सहित पद पाठउ꣣पह्वरे꣢ । उ꣣प । ह्वरे꣢ । गि꣣रीणाम् । स꣢ङ्गमे꣢ । स꣣म् । गमे꣢ । च꣣ । न꣡दीना꣢म् । धि꣣या꣢ । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । अजायत ॥१४३॥
स्वर रहित मन्त्र
उपह्वरे गिरीणाꣳ सङ्गमे च नदीनाम् । धिया विप्रो अजायत ॥१४३॥
स्वर रहित पद पाठ
उपह्वरे । उप । ह्वरे । गिरीणाम् । सङ्गमे । सम् । गमे । च । नदीनाम् । धिया । विप्रः । वि । प्रः । अजायत ॥१४३॥
सामवेद - मन्त्र संख्या : 143
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
विषयः - अथ पूर्वप्रश्नस्योत्तरं दीयते।
पदार्थः -
(गिरीणाम्) पर्वतानाम् (उपह्वरे२) एकान्ते अन्तिके वा। रहोऽन्तिकमुपह्वरे इत्यमरः ३।१८३। (नदीनाम्) सरितां (सङ्गमे च) सङ्गमस्थले च (धिया) ध्यानेन। धी शब्दो ध्यानार्थे निरुक्ते धीराः इत्यस्य व्याख्याने प्रोक्तः—धीराः प्रज्ञानवन्तो ध्यानवन्त इति (निरु० ४।९।) (विप्रः) विशेषेण प्राति पूरयति सर्वं जगत् स्वसत्तया यः स विप्रः सर्वव्यापकः यद्वा मेधावी इन्द्राख्यः३ परमात्मा। वि पूर्वात् प्रा पूरणे धातोः आतश्चोपसर्गे।’ अ० ३।१।१३६ इति कः प्रत्ययः। विप्र इति मेधाविनाम। निघं० ३।१५। (अजायत) आविर्भवति ॥९॥४
भावार्थः - युष्माकं प्रश्नः क्व स इन्द्रः परमेश्वर इति। तत्रास्माकमुत्तरं स सर्वव्यापकोऽस्ति, किन्तु दर्शनं तस्य बाह्यचक्षुषा न संभवति, ध्यानद्वाराऽन्तश्चक्षुषैव स साक्षात्कर्तुं योग्योस्ति। ध्यानं च न कोलाहलपूर्णे वातावरणे, परं पर्वतानां सरितां च शान्तप्रदेशे सुगमम्। तेष्वेव ध्यानयोग्येषु प्रदेशेषु ध्यानिनां परमेश्वरसाक्षात्कारो जायते। युष्माकं द्वितीयः प्रश्नः कस्तं सपर्यतीति। तस्योत्तरमपि पूर्वस्मिन्नुत्तरे समाविष्टम्। निराकारमकायमचक्षुर्गोचरमपि तं पूर्वोक्तप्रकारेण ध्यायन् पुजयितुमर्हति जनः, न तु तन्मूर्तिं विरच्य तत्र पत्रपुष्पतोयादिसमर्पणकर्ता तस्य वास्तविकः पूजक इति ॥९॥
टिप्पणीः -
१. ऋ० ८।६।२८, सङ्गमे इत्यत्र संगथे इति पाठः। य० २६।१५। २. उपह्वरे गह्वरे प्रदेशे—इति वि०। समीपे—इति भ०। ३. इन्द्रदेवताकत्वाद् ऋचः विप्रशब्देन इन्द्रो गृह्यते। ४. मन्त्रोऽयं दयानन्दर्षिणा यजुर्भाष्ये यो मनुष्यः शैलानां निकटे नदीनां च सङ्गमे योगेनेश्वरं विचारेण विद्यां चोपासीत स धिया मेधावी जायते इति विषये व्याख्यातः।