Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1438
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

स꣡ न꣢ ऊ꣣र्जे꣢ व्य꣣꣬३꣱व्य꣡यं꣢ प꣣वि꣡त्रं꣢ धाव꣣ धा꣡र꣢या । दे꣣वा꣡सः꣢ शृ꣣ण꣢व꣣न्हि꣡ क꣢म् ॥१४३८॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । ऊर्जे꣢ । वि । अ꣣व्य꣡य꣢म् । प꣣वि꣡त्र꣢म् । धा꣣व । धा꣡र꣢꣯या । दे꣣वा꣡सः꣢ । शृ꣣ण꣡व꣢न् । हि । क꣣म् ॥१४३८॥


स्वर रहित मन्त्र

स न ऊर्जे व्य३व्ययं पवित्रं धाव धारया । देवासः शृणवन्हि कम् ॥१४३८॥


स्वर रहित पद पाठ

सः । नः । ऊर्जे । वि । अव्ययम् । पवित्रम् । धाव । धारया । देवासः । शृणवन् । हि । कम् ॥१४३८॥

सामवेद - मन्त्र संख्या : 1438
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थः -
हे भक्तवत्सल देव ! (सः) प्रसिद्धः त्वम् (नः) अस्माकम् (ऊर्जे) बलाय प्राणशक्तये च। [ऊर्ज बलप्राणनयोः, चुरादिः।] अस्माकम् (पवित्रम्) परिपूतम् (अव्ययम्) अविनाशिनमन्तरात्मानम् (धारया) आनन्दधारया सह (वि धाव) प्रद्रव। (देवासः) विद्वांसः उपासकाः, (हि) निश्चयेन (कम्) सुखपूर्वकम् (शृणवन्) तव सन्देशान् शृण्वन्तु ॥४॥

भावार्थः - जगदीश्वरस्य सख्ये वसन्तः स्तोतारो बलं प्राणशक्तिमानन्दं च प्राप्य धार्मिकं जीवनं यापयन्ति ॥४॥

इस भाष्य को एडिट करें
Top