Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1439
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

प꣡व꣢मानो असिष्यद꣣द्र꣡क्षा꣢ꣳस्यप꣣ज꣡ङ्घ꣢नत् । प्र꣣त्नव꣢द्रो꣣च꣢य꣣न्रु꣡चः꣢ ॥१४३९॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानः । अ꣣सिष्यदत् । र꣡क्षा꣢꣯ꣳसि । अ꣣पज꣡ङ्घ꣢नत् । अ꣣प । ज꣡ङ्घ꣢꣯नत् । प्र꣣त्नव꣢त् । रो꣣च꣡यन् । रु꣡चः꣢꣯ ॥१४३९॥


स्वर रहित मन्त्र

पवमानो असिष्यदद्रक्षाꣳस्यपजङ्घनत् । प्रत्नवद्रोचयन्रुचः ॥१४३९॥


स्वर रहित पद पाठ

पवमानः । असिष्यदत् । रक्षाꣳसि । अपजङ्घनत् । अप । जङ्घनत् । प्रत्नवत् । रोचयन् । रुचः ॥१४३९॥

सामवेद - मन्त्र संख्या : 1439
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 1; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थः -
(पवमानः) पवित्रतादायकः आनन्दस्रावी जगदीश्वरः (रक्षांसि) कामक्रोधादीन् रिपून् पापानि च अपजङ्घनत् हिंसन्, (प्रत्नवत्) पुरातनाऽग्निवत्। [प्रत्नो होता वरेण्यः। ऋ० २।७।६ इत्यादिप्रामाण्याद् अग्निः प्रत्नः।] (रुचः) तेजांसि (रोचयन्) प्रदीपयन् (असिष्यदत्) प्रस्यन्दते ॥५॥ अत्रोपमालङ्कारः ॥५॥

भावार्थः - परमेश्वरकृपयोपासकस्यान्तःकरणाद् वासनाः क्षीयन्ते तेजांसि दीप्यन्ते हृदयं च निष्कलुषं पवित्रं जायते ॥५॥

इस भाष्य को एडिट करें
Top