Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1446
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

न꣢म꣣से꣡दुप꣢꣯ सीदत द꣣ध्ने꣢द꣣भि꣡ श्री꣢णीतन । इ꣢न्दु꣣मि꣡न्द्रे꣢ दधातन ॥१४४६॥

स्वर सहित पद पाठ

न꣡म꣢꣯सा । इत् । उ꣡प꣢꣯ । सीदत । दध्ना꣢ । इत् । अ꣣भि꣢ । श्री꣣णीतन । श्री꣣णीत । न । इ꣡न्दु꣢꣯म् । इ꣡न्द्रे꣢꣯ । द꣣धातन । दधात । न ॥१४४६॥


स्वर रहित मन्त्र

नमसेदुप सीदत दध्नेदभि श्रीणीतन । इन्दुमिन्द्रे दधातन ॥१४४६॥


स्वर रहित पद पाठ

नमसा । इत् । उप । सीदत । दध्ना । इत् । अभि । श्रीणीतन । श्रीणीत । न । इन्दुम् । इन्द्रे । दधातन । दधात । न ॥१४४६॥

सामवेद - मन्त्र संख्या : 1446
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे सखायः ! यूयम् (नमसा इत्) नमस्कारेणैव सह (उप सीदत) परमात्मानम् उपाध्वम्। तं सात्त्विकं नमस्कारम् (दध्ना इत्) रजोगुणोत्पन्नेन कर्मणा खलु (अभिश्रीणीतन) परिपक्वं कुरुत। [अभिपूर्वः श्रीञ् पाके क्र्यादिः। तस्य तनबादेशः।] (इन्दुम्) परमात्मनः सकाशात् प्रस्रुतम् आनन्दरसम् (इन्द्रे) जीवात्मनि (दधातन) धत्त ॥३॥ अत्रैकेन कर्तृकारकेण उपसीदत, श्रीणीतन, दधातन इत्यनेकक्रियायोगाद् दीपकालङ्कारः, दकारद्यनुप्रासश्च। गोदुग्धं सात्त्विकं, दधि चाम्लगुणत्वाद् राजसम्, अतो दध्ना कर्म व्यज्यते ॥३॥

भावार्थः - केवलमुपासनया नाभीष्टसिद्धिर्जायते, तया सह कर्मयोगोऽप्यपेक्ष्यते ॥३॥

इस भाष्य को एडिट करें
Top