Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1447
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

अ꣣मित्रहा꣡ विच꣢꣯र्षणिः꣣ प꣡व꣢स्व सोम꣣ शं꣡ गवे꣢꣯ । दे꣣वे꣡भ्यो꣢ अनुकाम꣣कृ꣢त् ॥१४४७॥

स्वर सहित पद पाठ

अमित्रहा꣢ । अ꣣मित्र । हा꣢ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । प꣡व꣢꣯स्व । सो꣣म । श꣢म् । ग꣡वे꣢꣯ । दे꣣वे꣡भ्यः꣢ । अनुक्राम꣣कृ꣢त् । अ꣣नुकाम । कृ꣢त् ॥१४४७॥


स्वर रहित मन्त्र

अमित्रहा विचर्षणिः पवस्व सोम शं गवे । देवेभ्यो अनुकामकृत् ॥१४४७॥


स्वर रहित पद पाठ

अमित्रहा । अमित्र । हा । विचर्षणिः । वि । चर्षणिः । पवस्व । सोम । शम् । गवे । देवेभ्यः । अनुक्रामकृत् । अनुकाम । कृत् ॥१४४७॥

सामवेद - मन्त्र संख्या : 1447
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment

पदार्थः -
हे (सोम) जगदीश्वर ! (अमित्रहा) कामक्रोधालस्यादिरिपूणां हन्ता, (विचर्षणिः) विद्रष्टा, (देवेभ्यः) विद्वद्भ्यः (अनुकामकृत्) अभीष्टसम्पादकः त्वम् (गवे) स्तोत्रे। [गौः इति स्तोतृनाम। निघं० ३।१६।] (शम्) शान्तिदायकः सन् (पवस्व) आनन्दं प्रवाहय ॥४॥

भावार्थः - आराधितः परमेश्वर उपासकस्य दुःखदुर्गुणदुर्व्यसनादीन् विनाश्य तस्मै सद्गुणान् प्रदाय सुखं शान्तिं दिव्यानन्दं च प्रवाहयति ॥४॥

इस भाष्य को एडिट करें
Top