Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1476
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
वे꣢त्था꣣ हि꣡ वे꣢धो꣣ अ꣡ध्व꣢नः प꣣थ꣡श्च꣢ दे꣣वा꣡ञ्ज꣢सा । अ꣡ग्ने꣢ य꣣ज्ञे꣡षु꣢ सुक्रतो ॥१४७६॥
स्वर सहित पद पाठवे꣡त्थ꣢꣯ । हि । वे꣣धः । अ꣡ध्व꣢꣯नः । प꣣थः꣢ । च꣣ । देव । अ꣡ञ्ज꣢꣯सा । अ꣡ग्ने꣢꣯ । य꣣ज्ञे꣡षु꣢ । सु꣣क्रतो । सु । क्रतो ॥१४७६॥
स्वर रहित मन्त्र
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा । अग्ने यज्ञेषु सुक्रतो ॥१४७६॥
स्वर रहित पद पाठ
वेत्थ । हि । वेधः । अध्वनः । पथः । च । देव । अञ्जसा । अग्ने । यज्ञेषु । सुक्रतो । सु । क्रतो ॥१४७६॥
सामवेद - मन्त्र संख्या : 1476
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मन उपकारं वर्णयति।
पदार्थः -
हे (वेधः) जगद्विधातः (देव) सर्वप्रकाशक (सुक्रतो) सुप्रज्ञ, सुकर्मन् (अग्ने) अग्रणीः सर्ववित् सर्वान्तर्यामिन् परमात्मन् ! त्वम् (हि) निश्चयेन (यज्ञेषु) जीवनयज्ञेषु (अञ्जसा) झटिति सारल्येन वा, अस्माकं कृते (अध्वनः) अभ्युदयमार्गान् (पथः च) निःक्षेयसमार्गांश्च (वेत्थ) जानासि, अस्मान् ज्ञापयसि च ॥३॥२
भावार्थः - जगदीश्वरोऽस्मान् धर्मार्थकाममोक्षमार्गान् विज्ञापयन्नस्माकं परमः सुहृद् जायते ॥३॥
इस भाष्य को एडिट करें