Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1475
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

स꣡ नो꣢ म꣣न्द्रा꣡भि꣢रध्व꣣रे꣢ जि꣣ह्वा꣡भि꣢र्यजा म꣣हः꣢ । आ꣢ दे꣣वा꣡न्व꣢क्षि꣣ य꣡क्षि꣢ च ॥१४७५॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । मन्द्रा꣡भिः꣢ । अ꣣ध्वरे꣢ । जि꣣ह्वा꣡भिः꣢ । य꣣ज । महः꣢ । आ । दे꣣वा꣢न् । व꣣क्षि । य꣡क्षि꣢꣯ । च꣣ ॥१४७५॥


स्वर रहित मन्त्र

स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः । आ देवान्वक्षि यक्षि च ॥१४७५॥


स्वर रहित पद पाठ

सः । नः । मन्द्राभिः । अध्वरे । जिह्वाभिः । यज । महः । आ । देवान् । वक्षि । यक्षि । च ॥१४७५॥

सामवेद - मन्त्र संख्या : 1475
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे अग्ने ! हे सर्वाग्रणीः परमात्मन् ! (सः) असौ त्वम् (मन्दाभिः) हर्षकरीभिः (जिह्वाभिः) वेदवाग्भिः। [जिह्वेति वाङ्नाम। निघं० १।११।] (अध्वरे) जीवनयज्ञे (नः) अस्मान् (महः) तेजः (यज) सङ्गमय, प्रापय। किञ्च (देवान्) दिव्यान् गुणान् (आवक्षि) आवह, (यक्षि च) अस्माभिः सङ्गतिं च कुरु। [वक्षि, यक्षि इति वहतेर्यजतेश्च लेटि सिपि रूपम्] ॥२॥२

भावार्थः - जगत्पितुः परमेश्वरस्येयं महती कृपा यत्तेनास्मभ्यं वेदवाक् प्रदत्ता यया वयं स्वकर्तव्यं बुध्यामहे, यतश्च वयं तेजःपुरुषार्थादिकस्य प्रेरणां प्राप्नुमः ॥२॥

इस भाष्य को एडिट करें
Top