Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1480
ऋषिः - हर्यतः प्रागाथः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

आ꣢ सु꣣ते꣡ सि꣢ञ्च꣣त श्रि꣢य꣣ꣳ रो꣡द꣢स्योरभि꣣श्रि꣡य꣢म् । र꣣सा꣡ द꣢धीत वृष꣣भ꣢म् ॥१४८०॥

स्वर सहित पद पाठ

आ꣢ । सु꣢ते꣡ । सि꣢ञ्चत । श्रि꣡य꣢꣯म् । रो꣡द꣢꣯स्योः । अ꣣भिश्रि꣡य꣢म् । अ꣣भि । श्रि꣡य꣢꣯म् । र꣣सा꣢ । द꣣धीत । वृषभ꣢म् ॥१४८०॥


स्वर रहित मन्त्र

आ सुते सिञ्चत श्रियꣳ रोदस्योरभिश्रियम् । रसा दधीत वृषभम् ॥१४८०॥


स्वर रहित पद पाठ

आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभिश्रियम् । अभि । श्रियम् । रसा । दधीत । वृषभम् ॥१४८०॥

सामवेद - मन्त्र संख्या : 1480
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे मानवाः ! यूयम् (सुते) भक्तिरसे अभिषुते सति (रोदस्योः) द्यावापृथिव्योः (अभिश्रियम्) शोभासम्पादकम् [अभिगता श्रीर्येन सः अभिश्रीः तम्।] (श्रियम्) आश्रयणीयम् अग्निं जगदीश्वरम् (आ सिञ्चत) भक्तिरसेन क्लेदयत। (रसा) जगदीश्वरान्निःसृता आनन्दरसनदी (वृषभम्) युष्माकं ज्ञानसिक्तं जीवात्मानम् (दधीत) परिपुष्णीयात् ॥१॥२ अत्र ‘श्रियम्’ इत्यस्य पुनरुक्तौ यमकालङ्कारः ॥१॥

भावार्थः - यदा परमेश्वरस्योपासकास्तं प्रति भक्तिरसतरङ्गिणीं प्रवाहयन्ति तदा परमेश्वरस्तान् प्रत्यानन्दरसतरङ्गिणीं प्रवाहयति ॥१॥

इस भाष्य को एडिट करें
Top