Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1490
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

आ꣡ ह꣢꣯रयः ससृज्रि꣣रे꣡ऽरु꣢षी꣣र꣡धि꣢ ब꣣र्हि꣡षि꣢ । य꣢त्रा꣣भि꣢ सं꣣न꣡वा꣢महे ॥१४९०॥

स्वर सहित पद पाठ

आ꣢ । ह꣡र꣢꣯यः । स꣣सृज्रिरे । अ꣡रु꣢꣯षीः । अ꣡धि꣢꣯ । ब꣣र्हि꣡षि꣢ । य꣡त्र꣢꣯ । अ꣣भि꣢ । सं꣣न꣡वा꣢महे । स꣣म् । न꣡वा꣢꣯महे ॥१४९०॥


स्वर रहित मन्त्र

आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । यत्राभि संनवामहे ॥१४९०॥


स्वर रहित पद पाठ

आ । हरयः । ससृज्रिरे । अरुषीः । अधि । बर्हिषि । यत्र । अभि । संनवामहे । सम् । नवामहे ॥१४९०॥

सामवेद - मन्त्र संख्या : 1490
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
(बर्हिषि अधि) यज्ञरूपेऽस्मिन् देहे (अरुषीः) अरुषयः यज्ञस्य अहिंसकाः। [रुषिः हिंसकः, रुष हिंसार्थः। अरुषिः अहिंसकः। अरुषयः इति प्राप्ते पूर्वसवर्णदीर्घः।] (हरयः) मनःप्राणसहिता ज्ञानेन्द्रियकर्मेन्द्रियरूपाः अश्वाः (आ ससृज्रिरे) आसक्ताः सन्ति। [ससृजिरे इति प्राप्ते ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः।] (यत्र) यस्मिन् देहयज्ञे स्थितम् (इन्द्रं) जीवात्मानम्, वयम् (अभि संनवामहे) अभिसंस्तुमः, उद्बोधयामः ॥२॥

भावार्थः - देहं यज्ञस्थलं तत्र स्थितानीन्द्रियाणि ऋत्विजः, जीवात्मानं च यजमानं मत्वा ये पवित्रं जीवनं यापयन्ति ते सफला जायन्ते ॥२॥

इस भाष्य को एडिट करें
Top