Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1491
ऋषिः - प्रियमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
इ꣡न्द्रा꣢य꣣ गा꣡व꣢ आ꣣शि꣡रं꣢ दुदु꣣ह्रे꣢ व꣣ज्रि꣢णे꣣ म꣡धु꣢ । य꣡त्सी꣢मुपह्व꣣रे꣢ वि꣣द꣢त् ॥१४९१॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯य । गा꣡वः꣢꣯ । आ꣣शि꣡र꣢म् । आ꣣ । शि꣡र꣢꣯म् । दु꣣दु꣢ह्रे । व꣣ज्रि꣡णे꣢ । म꣡धु꣢꣯ । यत् । सी꣣म् । उपह्वरे꣢ । उ꣣प । ह्वरे꣢ । वि꣣द꣢त् ॥१४९१॥
स्वर रहित मन्त्र
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु । यत्सीमुपह्वरे विदत् ॥१४९१॥
स्वर रहित पद पाठ
इन्द्राय । गावः । आशिरम् । आ । शिरम् । दुदुह्रे । वज्रिणे । मधु । यत् । सीम् । उपह्वरे । उप । ह्वरे । विदत् ॥१४९१॥
सामवेद - मन्त्र संख्या : 1491
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथात्मा ज्ञानं कथं लभत इत्याह।
पदार्थः -
(वज्रिणे) वीर्यवते। [वीर्यं वै वज्रः। श० ७।३।१।१९।] (इन्द्राय) जीवात्मने (गावः) मनोबुद्धिसहिता इन्द्रियरूपा धेनवः (मधु) मधुरम् (आशिरम्) ज्ञानरूपं दुग्धम् (दुदुह्रे) दुहन्ति। [इरयो रे। अ० ६।४।७६ इति इरे इत्यस्य रे आदेशः।] (यत्) ज्ञानदुग्धम् स इन्द्रो जीवात्मा (सीम्) सर्वतः (उपह्वरे) अन्तिके। [‘रहोऽन्तिकमुपह्वरे’ इत्यमरः ३।३।१८३।] (विदत्) प्राप्नोति ॥३॥
भावार्थः - परमात्मना जीवात्मने मनोबुद्धीन्द्रियरूपाणि सत्साधनानि प्रदत्तानि यैः स निखिलं ज्ञानमर्जयितुं शक्नोति ॥३॥
इस भाष्य को एडिट करें