Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1492
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
5
आ꣢ नो꣣ वि꣡श्वा꣢सु꣣ ह꣢व्य꣣मि꣡न्द्र꣢ꣳ स꣣म꣡त्सु꣢ भूषत । उ꣢प꣣ ब्र꣡ह्मा꣢णि꣣ स꣡व꣢नानि वृत्रहन्परम꣣ज्या꣡ ऋ꣢चीषम ॥१४९२॥
स्वर सहित पद पाठआ꣢ । नः꣣ । वि꣡श्वा꣢꣯सु । ह꣡व्य꣢꣯म् । इ꣡न्द्र꣢꣯म् । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । भू꣣षत । उ꣡प꣢꣯ । ब्र꣡ह्मा꣢꣯णि । स꣡व꣢꣯नानि । वृ꣣त्रहन् । वृत्र । हन् । परमज्याः꣢ । प꣣रम । ज्याः꣢ । ऋ꣣चीषम ॥१४९२॥
स्वर रहित मन्त्र
आ नो विश्वासु हव्यमिन्द्रꣳ समत्सु भूषत । उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥१४९२॥
स्वर रहित पद पाठ
आ । नः । विश्वासु । हव्यम् । इन्द्रम् । समत्सु । स । मत्सु । भूषत । उप । ब्रह्माणि । सवनानि । वृत्रहन् । वृत्र । हन् । परमज्याः । परम । ज्याः । ऋचीषम ॥१४९२॥
सामवेद - मन्त्र संख्या : 1492
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २६९ क्रमाङ्के परमेश्वरविषये व्याख्याता। अत्र विघ्ननिवारणाय परमात्मा नृपतिश्च प्रार्थ्यते।
पदार्थः -
हे राष्ट्रवासिनो जनाः ! यूयम् (विश्वासु समत्सु) सर्वेषु देवासुरसंग्रामेषु (नः) प्रजाजनानाम् अस्माकम् (हव्यम्) आह्वातुं योग्यम् (इन्द्रम्) परमात्मानं नृपतिं वा (आभूषत) स्वागतगानैः अलङ्कुरुत। हे (वृत्रहन्) विघ्नविदारक पापदलविध्वंसक (ऋचीषम२) स्तोतॄणां मानप्रद परमात्मन् राजन् वा ! [ऋचन्ति स्तुवन्तीति ऋचीषाः तान् मानयतीति ऋचीषमः। ऋच् स्तुतौ, बाहुलकादौणादिक ईषन् प्रत्ययः।] (परमज्याः) परमान् प्रबलान् आन्तरान् बाह्यांश्च शत्रून् जिनाति हिनस्तीति तथाविधः त्वम् अस्माकम् (ब्रह्माणि) ब्रह्मयज्ञान् (सवनानि) सोमयागस्य प्रातर्माध्यन्दिनसायंसवनानि च (उप) उपागच्छ ॥१॥
भावार्थः - यथा जगदीश्वरो नास्तिकान् पापान् दण्डयित्वा धर्मात्मभिरास्तिकैश्च सख्यं विधाय धार्मिकतां पुष्णाति तथैव नृपतिरपि कुर्यात् ॥१॥
इस भाष्य को एडिट करें