Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1498
ऋषिः - शुनःशेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

वि꣣भक्ता꣡सि꣢ चित्रभानो꣣ सि꣡न्धो꣢रू꣣र्मा꣡ उ꣢पा꣣क꣢ आ । स꣣द्यो꣢ दा꣣शु꣡षे꣢ क्षरसि ॥१४९८॥

स्वर सहित पद पाठ

वि꣣भक्ता꣢ । वि꣣ । भक्ता꣢ । अ꣡सि । चित्रभानो । चित्र । भानो । सि꣡न्धोः꣢꣯ । ऊ꣣र्मौ꣢ । उ꣣पाके꣢ । आ । स꣣द्यः꣢ । स꣣ । द्यः꣢ । दा꣣शु꣡षे꣢ । क्ष꣣रसि ॥१४९८॥


स्वर रहित मन्त्र

विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ । सद्यो दाशुषे क्षरसि ॥१४९८॥


स्वर रहित पद पाठ

विभक्ता । वि । भक्ता । असि । चित्रभानो । चित्र । भानो । सिन्धोः । ऊर्मौ । उपाके । आ । सद्यः । स । द्यः । दाशुषे । क्षरसि ॥१४९८॥

सामवेद - मन्त्र संख्या : 1498
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। हे (चित्रभानो) अद्भुततेजस्क अग्ने परमात्मन् ! त्वम् (विभक्ता) असि स्वकीयस्य तेजसः अन्येषु सूर्यादिपदार्थेषु विभाजयिता असि। त्वम् (सिन्धोः) समुद्रस्य नद्याः वा (ऊर्मौ) तरङ्गे विद्यसे। (उपाके) सर्वेषां समीपे (आ) आगतोऽसि। [उपाके इति अन्तिकनाम। निघं० २।१६।] त्वम् (दाशुषे) आत्मसमर्पकाय उपासकाय (सद्यः) शीघ्रमेव (क्षरसि) आनन्दं स्रावयसि ॥ द्वितीयः—आचार्यपरः। हे (चित्रभानो२) अद्भुतविद्याप्रकाशमय विद्वन् आचार्य ! त्वम् (विभक्ता असि) विद्यायाः अन्येषु विभाजयिता विद्यसे। (सिन्धोः ऊर्मौ उपाके) नद्याः ऊर्मिमयस्य प्रवाहस्य निकटे (आ) गुरुकुलाश्रमं संस्थाप्य आतिष्ठसि। तत्र च (सद्यः) शीघ्रम् (दाशुषे२) आत्मसमर्पकाय शिष्याय (क्षरसि) विद्यां वर्षसि ॥२॥४ अत्र श्लेषालङ्कारः ॥२॥

भावार्थः - यथा जगदीश्वरः सर्वं वस्तुजातं स्वप्रजासु विभजति तथैव गुरवः सर्वा विद्याः शिष्येषु विभजेरन् ॥२॥

इस भाष्य को एडिट करें
Top