Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1499
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
आ꣡ नो꣢ भज पर꣣मे꣡ष्वा वाजे꣢꣯षु मध्य꣣मे꣡षु꣢ । शि꣢क्षा꣣ व꣢स्वो꣣ अ꣡न्त꣢मस्य ॥१४९९॥
स्वर सहित पद पाठआ꣢ । नः꣣ । भज । परमे꣡षु꣢ । आ । वाजे꣡षु꣢꣯ । म꣣ध्यमे꣡षु꣢ । शि꣡क्ष꣢꣯ । व꣡स्वः꣢꣯ । अ꣡न्त꣢꣯मस्य ॥१४९९॥
स्वर रहित मन्त्र
आ नो भज परमेष्वा वाजेषु मध्यमेषु । शिक्षा वस्वो अन्तमस्य ॥१४९९॥
स्वर रहित पद पाठ
आ । नः । भज । परमेषु । आ । वाजेषु । मध्यमेषु । शिक्ष । वस्वः । अन्तमस्य ॥१४९९॥
सामवेद - मन्त्र संख्या : 1499
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ जगदीश्वर आचार्यश्च प्रार्थ्यते।
पदार्थः -
हे अग्ने ! हे विद्वन् परमात्मन् आचार्य वा ! त्वम् (परमेषु) पराविद्याजन्येषु उच्चेषु (वाजेषु) विज्ञानेषु (नः आ भज) अस्मान् भागिनः कुरु, (मध्यमेषु) अपराविद्याजन्येषु मध्यमेषु (वाजेषु) विज्ञानेषु (आभज) भागिनः कुरु। किञ्च (अन्तमस्य) त्वदन्तिके विद्यमानस्य (वस्वः) सकलस्य ऐश्वर्यस्यापि (शिक्ष) प्रदानं कुरु। [शिक्षतिर्दानकर्मा। निघं० ३।२०] ॥३॥२
भावार्थः - परमेश्वरस्य कृपया योग्यैर्गुरुभिः शिक्षणेन च सर्वे जनाः ‘अथ परा यया तदक्षरमधिगम्यते’ (मु० २।५) इत्याख्यां पराविद्यां, ‘तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति (मु० २।५)’ इत्याख्यामपराविद्यां च, सकलं रजतहिरण्यमणिमुक्तादिरूपं धनं च विन्देयुः ॥३॥
इस भाष्य को एडिट करें