Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1509
ऋषिः - विश्वमना वैयश्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
5
ए꣢न्दु꣣मि꣡न्द्रा꣢य सिञ्चत꣣ पि꣡बा꣢ति सो꣣म्यं꣡ मधु꣢꣯ । प्र꣡ राधा꣢꣯ꣳसि चोदयते महित्व꣣ना꣢ ॥१५०९॥
स्वर सहित पद पाठआ꣢ । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । सि꣣ञ्चत । पि꣡बा꣢꣯ति । सो꣣म्य꣢म् । म꣡धु꣢꣯ । प्र । रा꣡धा꣢꣯ꣳसि । चो꣣दयते । महित्वना꣢ ॥१५०९॥
स्वर रहित मन्त्र
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु । प्र राधाꣳसि चोदयते महित्वना ॥१५०९॥
स्वर रहित पद पाठ
आ । इन्दुम् । इन्द्राय । सिञ्चत । पिबाति । सोम्यम् । मधु । प्र । राधाꣳसि । चोदयते । महित्वना ॥१५०९॥
सामवेद - मन्त्र संख्या : 1509
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमायामृचि पूर्वार्चिके ३८६ क्रमाङ्के इन्द्रशब्देन परमात्मा गृहीतः। अत्र जीवात्मा गृह्यते।
पदार्थः -
हे सखायः ! यूयम् (इन्द्राय) स्वकीयाय अन्तरात्मने (इन्दुम्) क्लेदकं ब्रह्मानन्दरसम् (आ सिञ्चत) क्षारयत। सः (सोम्यम्) शान्तिकरम् (मधु) मधुरं तं ब्रह्मानन्दरसम् (पिबाति) पिबतु। पीतः स ब्रह्मानन्दरसः (महित्वना) स्वमहिम्ना (राधांसि) ऐश्वर्याणि (प्र चोदयते) प्रेरयतु ॥१॥
भावार्थः - परमात्मनः सकाशात् प्रवहन्नानन्दरसः जीवात्मना पीतो बहुकल्याणकरो जायते ॥१॥
इस भाष्य को एडिट करें