Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1511
ऋषिः - विश्वमना वैयश्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
3
न꣢ ह्या꣣꣬ꣳ३꣱ग꣢ पु꣣रा꣢ च꣣ न꣢ ज꣣ज्ञे꣢ वी꣣र꣡त꣢र꣣स्त्व꣢त् । न꣡ की꣢ रा꣣या꣢꣫ नैवथा꣣ न꣢ भ꣣न्द꣡ना꣢ ॥१५११॥
स्वर सहित पद पाठन । हि । अ꣣ङ्ग꣢ । पु꣣रा꣢ । च꣣ । न꣢ । ज꣣ज्ञे꣢ । वी꣣र꣡त꣢रः । त्वत् । न । किः꣣ । राया꣢ । न । ए꣣व꣡था꣢ । न । भ꣣न्द꣡ना꣢ ॥१५११॥
स्वर रहित मन्त्र
न ह्याꣳ३ग पुरा च न जज्ञे वीरतरस्त्वत् । न की राया नैवथा न भन्दना ॥१५११॥
स्वर रहित पद पाठ
न । हि । अङ्ग । पुरा । च । न । जज्ञे । वीरतरः । त्वत् । न । किः । राया । न । एवथा । न । भन्दना ॥१५११॥
सामवेद - मन्त्र संख्या : 1511
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथेन्द्रस्य परमात्मनो महिमानमाह।
पदार्थः -
हे (अङ्ग) प्रिय परमेश ! (पुरा च न) प्राक्-कालेऽपि (त्वत्) त्वदपेक्षया (वीरतरः) अधिको वीरः कश्चन (न जज्ञे) नैव उत्पन्नः, साम्प्रतं नास्ति, भाविनि काले च न भविष्यतीति किमु वक्तव्यम् (न किः) नैव (राया) धनेन, (न एवथा२) न एवेन गमनेन, कर्मणा, अवनेन वा, (न) नापि च (भन्दना३) भन्दनया कल्याणेन त्वदधिकः (कश्चिद्) जज्ञे वर्तते, जनिष्यते वा। [एवैः अयनैः अवनैर्वा इति निरुक्तम् २।२५। इण् गतौ धातोः ‘इण्शीभ्यां वन्।’ उ० १।१५२ इति वन् प्रत्ययः। ततस्तृतीयार्थे छान्दसः था प्रत्ययः। भन्दना, भदि कल्याणे सुखे च, कल्याणेन। भन्दनया इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१३९ इति तृतीयाया आकारादेशः] ॥३॥
भावार्थः - न खलु जगदीश्वरादधिकः कश्चिद् वीरो धनवान् कर्मण्यो रक्षकः कल्याणकरश्च भूतो वर्तते वर्तिष्यते वा। अत आत्मनः सुखाय शान्त्यै च स एव सर्वैर्वन्दनीयः ॥३॥
इस भाष्य को एडिट करें