Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1515
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम -
6

अ꣡द꣢र्शि गातु꣣वि꣡त्त꣢मो꣣ य꣡स्मि꣢न्व्र꣣ता꣡न्या꣢द꣣धुः꣢ । उ꣢पो꣣षु꣢ जा꣣त꣡मार्य꣢꣯स्य꣣ व꣡र्ध꣢नम꣣ग्निं꣡ न꣢क्षन्तु नो꣣ गि꣡रः꣢ ॥१५१५॥

स्वर सहित पद पाठ

अ꣡द꣢꣯र्शि । गा꣣तुवि꣡त्त꣢मः । गा꣣तु । वि꣡त्त꣢꣯मः । य꣡स्मि꣢꣯न् । व्र꣣ता꣡नि꣢ । आ꣣दधुः꣢ । आ꣣ । दधुः꣢ । उ꣡प꣢꣯ । उ꣣ । सु꣢ । जा꣣त꣢म् । आ꣡र्य꣢꣯स्य । व꣡र्ध꣢꣯नम् । अ꣣ग्नि꣢म् । न꣣क्षन्तु । नः । गि꣡रः꣢꣯ ॥१५१५॥


स्वर रहित मन्त्र

अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥१५१५॥


स्वर रहित पद पाठ

अदर्शि । गातुवित्तमः । गातु । वित्तमः । यस्मिन् । व्रतानि । आदधुः । आ । दधुः । उप । उ । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्तु । नः । गिरः ॥१५१५॥

सामवेद - मन्त्र संख्या : 1515
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(गातुवित्तमः) गातुं कर्तव्याकर्तव्यमार्गमतिशयेन वेदयति ज्ञापयति यः स जगदीश्वरो नृपतिर्वा (अदर्शि) अस्माभिर्दृष्टोऽस्ति, (यस्मिन्) यस्याश्रये विद्यमानाः प्रजाजनाः (व्रतानि) स्वीयानि स्वीयानि कर्तव्यकर्माणि (आदधुः) कुर्वन्ति। (उ) अथ च (सुजातम्) सम्यक् अन्तरात्मनि आविर्भूतम्, निर्वाचनपद्धत्या राजपदेऽभिषिक्तं वा, (आर्यस्य वर्धनम्) श्रेष्ठजनस्य वृद्धिकरम् (अग्निम्) अग्रनायकं जगदीश्वरं नृपतिं वा (नः) अस्माकम् (गिरः) प्रार्थनावचनानि (उप नक्षन्तु) उपगच्छन्तु ॥१॥

भावार्थः - यथा जगदीश्वरः कर्तव्यमार्गबोधक आर्याणां प्रोत्साहको दुर्जनानां च दण्डयिताऽस्ति तथैव नृपतिनापि भाव्यम् ॥१॥

इस भाष्य को एडिट करें
Top