Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1520
ऋषिः - शतं वैखानसाः देवता - अग्निः पवमानः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣢ग्ने꣣ प꣡व꣢स्व꣣ स्व꣡पा꣢ अ꣣स्मे꣡ वर्चः꣢꣯ सु꣣वी꣡र्य꣢म् । द꣡ध꣢द्र꣣यिं꣢꣫ मयि꣣ पो꣡ष꣢म् ॥१५२०॥

स्वर सहित पद पाठ

अ꣡ग्ने꣢꣯ । प꣡व꣢꣯स्व । स्व꣡पाः꣢꣯ । सु꣣ । अ꣡पाः꣢ । अ꣣स्मे꣡इति꣢ । व꣡र्चः꣢꣯ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । द꣡ध꣢꣯त् । र꣣यि꣢म् । म꣡यि꣢꣯ । पो꣡ष꣢꣯म् ॥१५२०॥


स्वर रहित मन्त्र

अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद्रयिं मयि पोषम् ॥१५२०॥


स्वर रहित पद पाठ

अग्ने । पवस्व । स्वपाः । सु । अपाः । अस्मेइति । वर्चः । सुवीर्यम् । सु । वीर्यम् । दधत् । रयिम् । मयि । पोषम् ॥१५२०॥

सामवेद - मन्त्र संख्या : 1520
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (अग्ने) योगविद्याविद् विद्वन् ! (स्वपाः) शोभनानि अपांसि कर्माणि यस्य तादृशः त्वम् (अस्मे) अस्मभ्यम् (सुवीर्यम्) श्रेष्ठवीर्योपेतम् (वर्चः) योगजन्यं तेजः (पवस्व) प्रापय, किञ्च (मयि) योगजिज्ञासौ (पोषम्) पोषकम् (रयिम्) विवेकख्यातिरूपम् अध्यात्मं धनम् (दधत्) धारयन्, भवेति शेषः ॥३॥

भावार्थः - योगप्रशिक्षको योगिराट् स्वयं शुभकर्मा सन् शिष्यानपि शुभकर्मकरणायोपदिशेत्, योगाभ्यासद्वारा च तान् मुमुक्षून् वर्चस्विनः विवेकख्यातिमतश्च कृत्वा निःश्रेयसाधिकारिणः कुर्यात् ॥३॥

इस भाष्य को एडिट करें
Top