Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1522
ऋषिः - वसूयव आत्रेयाः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
तं꣡ त्वा꣢ घृतस्नवीमहे꣣ चि꣡त्र꣢भानो स्व꣣र्दृ꣡श꣢म् । दे꣣वा꣢꣫ꣳ आ वी꣣त꣡ये꣢ वह ॥१५२२॥
स्वर सहित पद पाठत꣢म् । त्वा꣣ । घृतस्नो । घृत । स्नो । ईमहे । चि꣡त्र꣢꣯भानो । चि꣡त्र꣢꣯ । भा꣣नो । स्वर्दृ꣡श꣢म् । स्वः꣣ । दृ꣡श꣢꣯म् । दे꣣वा꣢न् । आ । वी꣣त꣡ये꣢ । व꣣ह ॥१५२२॥
स्वर रहित मन्त्र
तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् । देवाꣳ आ वीतये वह ॥१५२२॥
स्वर रहित पद पाठ
तम् । त्वा । घृतस्नो । घृत । स्नो । ईमहे । चित्रभानो । चित्र । भानो । स्वर्दृशम् । स्वः । दृशम् । देवान् । आ । वीतये । वह ॥१५२२॥
सामवेद - मन्त्र संख्या : 1522
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि तावेव प्रार्थयते।
पदार्थः -
हे (घृतस्नो) विद्यारसस्य आनन्दरसस्य च प्रस्रावक, (चित्रभानो) अद्भुततेजःसम्पन्न अग्ने जगदीश्वर आचार्य वा ! (तम्) प्रसिद्धम् (स्वर्दृशम्) विवेकप्रकाशस्य दर्शयितारम् (त्वा) त्वाम् वयम् (ईमहे) याचामहे। त्वम् (वीतये) अस्माकं प्रगतये (देवान्) दिव्यगुणान् (आ वह) प्रापय ॥२॥२
भावार्थः - परमात्मोपासनेनाचार्यकुलवासेन चानन्दरसो विद्यारसः कर्तव्याकर्तव्यप्रकाशो जीवने प्रगतिश्च प्राप्यते ॥२॥
इस भाष्य को एडिट करें