Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1525
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
आ꣡ नो꣢ अग्ने र꣣यिं꣡ भ꣢र सत्रा꣣सा꣢हं꣣ व꣡रे꣢ण्यम् । वि꣡श्वा꣢सु पृ꣣त्सु꣢ दु꣣ष्ट꣡र꣢म् ॥१५२५॥
स्वर सहित पद पाठआ꣢ । नः꣣ । अग्ने । रयि꣢म् । भ꣣र । स꣡त्रासाह꣢म् । स꣣त्रा । सा꣡ह꣢꣯म् । व꣡रे꣢꣯ण्यम् । वि꣡श्वा꣢꣯सु । पृ꣣त्सु꣢ । दु꣣ष्ट꣡र꣢म् । दुः꣣ । त꣡र꣢꣯म् ॥१५२५॥
स्वर रहित मन्त्र
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् । विश्वासु पृत्सु दुष्टरम् ॥१५२५॥
स्वर रहित पद पाठ
आ । नः । अग्ने । रयिम् । भर । सत्रासाहम् । सत्रा । साहम् । वरेण्यम् । विश्वासु । पृत्सु । दुष्टरम् । दुः । तरम् ॥१५२५॥
सामवेद - मन्त्र संख्या : 1525
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनर्जगदीश्वरं प्रार्थयते।
पदार्थः -
हे (अग्ने) अग्रनायक जगदीश्वर ! त्वम् (नः) अस्मभ्यम् (सत्रासाहम्) युगपदनेकासां विपदां विदारकम्, (वरेण्यम्) वरणीयम्, (विश्वासु पृत्सु) सर्वेषु संग्रामेषु (दुष्टरम्) दुस्तरम्, अनाच्छेद्यम् (रयिम्) वीरतारूपम् ऐश्वर्यम् (आ भर) आहर, प्रदेहि ॥२॥२
भावार्थः - परमवीरं परमेश्वरं ध्यात्वा वयं वीरगणाग्रगण्याः सन्तः सर्वा विपदः सर्वांश्चाभ्यन्तरान् बाह्यांश्च शत्रून् पराजयेमहि ॥२॥
इस भाष्य को एडिट करें