Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1527
ऋषिः - केतुराग्नेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣ग्नि꣡ꣳ हि꣢न्वन्तु नो꣣ धि꣢यः꣣ स꣡प्ति꣢मा꣣शु꣡मि꣢वा꣣जि꣡षु꣢ । ते꣡न꣢ जेष्म꣣ ध꣡नं꣢धनम् ॥१५२७॥

स्वर सहित पद पाठ

अ꣣ग्नि꣢म् । हि꣣न्वन्तु । नः । धि꣡यः꣢꣯ । स꣡प्ति꣢꣯म् । आ꣣शु꣢म् । इ꣣व । आजि꣡षु꣢ । ते꣡न꣢꣯ । जे꣣ष्म । ध꣡नं꣢꣯धनम् । ध꣡न꣢꣯म् । ध꣣नम् ॥१५२७॥


स्वर रहित मन्त्र

अग्निꣳ हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु । तेन जेष्म धनंधनम् ॥१५२७॥


स्वर रहित पद पाठ

अग्निम् । हिन्वन्तु । नः । धियः । सप्तिम् । आशुम् । इव । आजिषु । तेन । जेष्म । धनंधनम् । धनम् । धनम् ॥१५२७॥

सामवेद - मन्त्र संख्या : 1527
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
(नः) अस्माकम् (धियः) ध्यानक्रियाः बुद्धयो वा (अग्निम्) अग्रनायकं परमात्मानं नृपतिं वा (हिन्वन्तु) प्रेरयन्तु। कथमिव ? (आजिषु) युद्धेषु (आशुं सप्तिम् इव) वेगवन्तम् अश्वं यथा प्रेरयन्ति तद्वत्। (तेन) परमात्मना नृपतिना वा (धनं धनम्) प्रत्येकम् आध्यात्मिकं भौतिकं वा ऐश्वर्यम्, वयम् (जेष्म) जयेम। [जि जये, लिङर्थे लुङ्। अडभावो वृद्ध्यभावश्च छान्दसः] ॥१॥अत्रोपमालङ्कारः ॥१॥

भावार्थः - दिव्यसम्पदां भौतिकसम्पदां च प्राप्तये परमेश्वरो नृपतिश्च परमसहायकौ जायेते ॥१॥

इस भाष्य को एडिट करें
Top