Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1528
ऋषिः - केतुराग्नेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

य꣢या꣣ गा꣢ आ꣣क꣡रा꣢महै꣣ से꣡न꣢याग्ने꣣ त꣢वो꣣त्या꣢ । तां꣡ नो꣢ हिन्व म꣣घ꣡त्त꣢ये ॥१५२८॥

स्वर सहित पद पाठ

य꣡या꣢꣯ । गाः । आ꣣क꣡रा꣢महै । आ꣣ । क꣡रा꣢꣯महै । से꣡न꣢꣯या । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣त्या꣢ । ताम् । नः꣣ । हिन्व । मघ꣡त्त꣢ये ॥१५२८॥


स्वर रहित मन्त्र

यया गा आकरामहै सेनयाग्ने तवोत्या । तां नो हिन्व मघत्तये ॥१५२८॥


स्वर रहित पद पाठ

यया । गाः । आकरामहै । आ । करामहै । सेनया । अग्ने । तव । ऊत्या । ताम् । नः । हिन्व । मघत्तये ॥१५२८॥

सामवेद - मन्त्र संख्या : 1528
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 4; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रणीः परमात्मन् नृपते वा ! (तव यया ऊत्या सेनया) तव यया रक्षारूपया सेनया रक्षिकया सेनया वा, वयम् (गाः) अन्तःप्रकाशरश्मीन् धेन्वादिसम्पत्तीर्वा (आ करामहै) प्राप्नुमः (ताम्) रक्षां सेनां वा (मघत्तये) मघदत्तये, ऐश्वर्यप्रदानाय (नः) अस्मभ्यम् (हिन्व) प्रेरय ॥२॥

भावार्थः - नृपतेः सेनया रक्षिताः प्रजा यथा भौतिकीः सम्पदाः प्राप्तुं शक्ता जायन्ते तथैव परमात्मनो रक्षणसामर्थ्येन रक्षिता जना अध्यात्मसम्पत्तीः प्राप्नुवन्ति ॥२॥

इस भाष्य को एडिट करें
Top