Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1540
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

वृ꣡ष꣢णं त्वा व꣣यं꣡ वृ꣢ष꣣न्वृ꣡ष꣢णः꣣ स꣡मि꣢धीमहि । अ꣢ग्ने꣣ दी꣡द्य꣢तं बृ꣣ह꣢त् ॥१५४०॥

स्वर सहित पद पाठ

वृ꣡ष꣢꣯णम् । त्वा꣣ । वय꣢म् । वृ꣣षन् । वृ꣡ष꣢꣯णः । सम् । इ꣣धीमहि । अ꣡ग्ने꣢꣯ । दी꣡द्य꣢꣯तम् । बृ꣣ह꣢त् ॥१५४०॥


स्वर रहित मन्त्र

वृषणं त्वा वयं वृषन्वृषणः समिधीमहि । अग्ने दीद्यतं बृहत् ॥१५४०॥


स्वर रहित पद पाठ

वृषणम् । त्वा । वयम् । वृषन् । वृषणः । सम् । इधीमहि । अग्ने । दीद्यतम् । बृहत् ॥१५४०॥

सामवेद - मन्त्र संख्या : 1540
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (वृषन्) कामवर्षक (अग्ने) जगन्नायक परमेश ! (वृषणः) भक्तिरसवर्षकाः (वयम्) उपासकाः (वृषणम्) आनन्दरसवर्षकम्, (बृहत् दीद्यतम्) सातिशयं दीप्यमानम् (त्वा) त्वाम् (समिधीमहि) स्वात्मनि प्रदीपयामः ॥३॥२

भावार्थः - यः परमात्मानं भक्तिरसेन क्लेदयति तं स आनन्दरसेन क्लेदयति ॥३॥

इस भाष्य को एडिट करें
Top