Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1544
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
3
पा꣣हि꣡ नो꣢ अग्न꣣ ए꣡क꣢या पा꣣ह्यू꣢३꣱त꣢ द्वि꣣ती꣡य꣢या । पा꣣हि꣢ गी꣣र्भि꣢स्ति꣣सृ꣡भि꣢रूर्जां पते पा꣣हि꣡ च꣢त꣣सृ꣡भि꣢र्वसो ॥१५४४॥
स्वर सहित पद पाठपा꣣हि꣢ । नः꣣ । अग्ने । ए꣡क꣢꣯या । पा꣣हि꣢ । उ꣣त꣢ । द्वि꣣ती꣡य꣢या । पा꣣हि꣢ । गी꣣र्भिः꣢ । ति꣣सृ꣡भिः꣢ । ऊ꣣र्जाम् । पते । पाहि꣢ । च꣣तसृ꣡भिः꣢ । व꣣सो ॥१५४४॥
स्वर रहित मन्त्र
पाहि नो अग्न एकया पाह्यू३त द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥१५४४॥
स्वर रहित पद पाठ
पाहि । नः । अग्ने । एकया । पाहि । उत । द्वितीयया । पाहि । गीर्भिः । तिसृभिः । ऊर्जाम् । पते । पाहि । चतसृभिः । वसो ॥१५४४॥
सामवेद - मन्त्र संख्या : 1544
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिक-भाष्ये ३६ क्रमाङ्के परमेश्वरं विद्वांसं च सम्बोधिता। अत्राचार्य उच्यते।
पदार्थः -
हे (अग्ने) विद्वन् आचार्य ! त्वम् (एकया) धर्मोपदेशिकया गिरा (नः) अस्मान् (पाहि) पालय, (उत) अपि च (द्वितीयया) धर्मानुकूलार्थोपदेशिकया वाचा (पाहि) पालय। हे (ऊर्जां पते) ब्रह्मबलाधिपते आचार्य ! त्वम् (तिसृभिः गीर्भिः) धर्मार्थकामोपदेशिकाभिः वाग्भिः (पाहि) पालय। हे (वसो) सद्गुणनिवासक आचार्य ! त्वम् (चतसृभिः) धर्मार्थकाममोक्षोपदेशिकाभिः वाग्भिः (पाहि) पालय ॥१॥२
भावार्थः - आचार्यस्येदं कर्त्तव्यं यत् स शिष्यान् धर्मस्य, धर्माऽविरोधिनोऽर्थस्य, धर्माऽविरोधिनः कामस्य, मोक्षस्य चोपदेशेन विदुषः सदाचारान् मोक्षाधिकारिणश्च कुर्यात् ॥१॥
इस भाष्य को एडिट करें