Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1546
ऋषिः - त्रित आप्त्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
2

इ꣣नो꣡ रा꣢जन्न꣣रतिः꣡ समि꣢꣯द्धो꣣ रौ꣢द्रो꣣ द꣡क्षा꣢य सुषु꣣मा꣡ꣳ अ꣢दर्शि । चि꣣कि꣡द्वि भा꣢꣯ति भा꣣सा꣡ बृ꣢ह꣣ता꣡सि꣢क्नीमेति꣣ रु꣡श꣢तीम꣣पा꣡ज꣢न् ॥१५४६॥

स्वर सहित पद पाठ

इ꣣नः꣢ । रा꣣जन् । अरतिः꣢ । स꣡मि꣢꣯द्धः । सम् । इ꣣द्धः । रौ꣡द्रः꣢꣯ । द꣡क्षा꣢꣯य । सु꣣षु꣢मान् । अ꣣दर्शि । चिकि꣢त् । वि । भा꣣ति । भासा꣢ । बृ꣣हता꣢ । अ꣡सि꣢꣯क्नीम् । ए꣣ति । रु꣡श꣢꣯तीम् । अ꣣पा꣡ज꣢न् । अ꣣प । अ꣡ज꣢꣯न् ॥१५४६॥


स्वर रहित मन्त्र

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमाꣳ अदर्शि । चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥१५४६॥


स्वर रहित पद पाठ

इनः । राजन् । अरतिः । समिद्धः । सम् । इद्धः । रौद्रः । दक्षाय । सुषुमान् । अदर्शि । चिकित् । वि । भाति । भासा । बृहता । असिक्नीम् । एति । रुशतीम् । अपाजन् । अप । अजन् ॥१५४६॥

सामवेद - मन्त्र संख्या : 1546
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (राजन्) विश्वसम्राट् सर्वान्तर्यामिन् परमात्मन् ! त्वम् (इनः) सर्वेश्वरः (अरतिः) सर्वव्यापकः। [ऋ गतौ धातोः ‘अर्तेश्च’। उ० ५।७ इति ऊतिप्रत्ययः।] (समिद्धः) स्वतःप्रकाशश्च असि। अथ परोक्षकृतमाह—(रौद्रः) दुष्टानां भयंकरः, (सुषुमान्) सज्जनेभ्यो रसवान् सः। [शोभनं सवनं सुषुः तद्वान्।] (दक्षाय बलप्राप्त्यर्थम् (अदर्शि) दृश्यते। (चिकित्) सर्वज्ञः सः (बृहता) महत्या (भासा) दीप्त्या (विभाति) भासते। (रुशतीम्) रोचमानाम् उषसम् (अपाजन्) अपगमयन् (असिक्नीम्) असितां रात्रिम्। [असिक्नी इति रात्रिनाम। निघं० १।७।] (एति) प्राप्नोति। तथैव असिक्नीं रात्रिम् अपाजन् रुशतीम् उषसम् एतीति व्यज्यते, तत्कृत एव सर्वोऽपि दिवसरात्र्यादिप्रपञ्च इति भावः ॥१॥

भावार्थः - अहोरात्राः पक्षा मासा ऋतव उत्तरायणं दक्षिणायनं संवत्सर इत्यादिकः सर्वोऽपि कालविभागो जलं स्थलमाकाशश्चन्द्रः सूर्यस्तारका इत्यादिकश्च सकलोऽपि देशविभागः परमेश्वरकृत एव यत्र स सम्राड् भूत्वा सर्वं व्यवस्थापयति ॥१॥

इस भाष्य को एडिट करें
Top