Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1556
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
अ꣡दा꣢भ्यः पुरए꣣ता꣢ वि꣣शा꣢म꣣ग्नि꣡र्मानु꣢꣯षीणाम् । तू꣢र्णी꣣ र꣢थः꣣ स꣢दा꣣ न꣡वः꣢ ॥१५५६॥
स्वर सहित पद पाठअ꣡दा꣢꣯भ्यः । अ । दा꣣भ्यः । पुरएता꣢ । पु꣣रः । एता꣢ । वि꣣शा꣢म् । अ꣣ग्निः꣢ । मा꣡नु꣢꣯षीणाम् । तू꣡र्णिः꣢꣯ । र꣡थः꣢꣯ । स꣡दा꣣ । न꣡वः꣢꣯ ॥१५५६॥
स्वर रहित मन्त्र
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् । तूर्णी रथः सदा नवः ॥१५५६॥
स्वर रहित पद पाठ
अदाभ्यः । अ । दाभ्यः । पुरएता । पुरः । एता । विशाम् । अग्निः । मानुषीणाम् । तूर्णिः । रथः । सदा । नवः ॥१५५६॥
सामवेद - मन्त्र संख्या : 1556
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ परमात्मानं वर्णयति।
पदार्थः -
(अग्निः) जगन्नायकः सर्वान्तर्यामी परमेश्वरः (अदाभ्यः) केनापि दब्धुं पराजेतुम् अशक्यः, (मानुषीणां विशाम्) मानवीनां प्रजानाम् (पुरएता) अग्रगन्ता च भवति। (रथः) एतेन रचितो मानवदेहरूपो (रथः तूर्णिः) सद्यो गन्ता, (सदा नवः) सदा स्तुत्यश्च वर्तते ॥१॥२
भावार्थः - जगदीश्वरः खलु कीदृशो विलक्षणः शिल्पी यत्तेन रचित आत्माधिष्ठितो मानवदेहरूपो रथश्चेतनः सन् स्वयमेव याति स्वयमेव विरमति स्वयमेव च कर्तव्याकर्तव्यविवेकं कुरुते ॥१॥
इस भाष्य को एडिट करें