Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1573
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
7

अ꣣भि꣡ त्वा꣢ पू꣣र्व꣡पी꣢तय꣣ इ꣢न्द्र꣣ स्तो꣡मे꣢भिरा꣣य꣡वः꣢ । स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢स्वरन्रु꣣द्रा꣡ गृ꣢णन्त पू꣣र्व्य꣢म् ॥१५७३॥

स्वर सहित पद पाठ

अ꣡भि꣢ । त्वा꣣ । पूर्व꣡पी꣢तये । पू꣣र्व꣢ । पी꣣तये । इ꣡न्द्र꣢꣯ । स्तो꣡मे꣢꣯भिः । आ꣣य꣡वः꣢ । स꣣मीचीना꣡सः꣢ । स꣣म् । ईचीना꣡सः꣢ । ऋ꣣भ꣡वः꣢ । ऋ꣣ । भ꣡वः꣢꣯ । सम् । अ꣣स्वरन् । रुद्राः꣢ । गृ꣣णन्त । पूर्व्य꣢म् ॥१५७३॥


स्वर रहित मन्त्र

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः । समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥१५७३॥


स्वर रहित पद पाठ

अभि । त्वा । पूर्वपीतये । पूर्व । पीतये । इन्द्र । स्तोमेभिः । आयवः । समीचीनासः । सम् । ईचीनासः । ऋभवः । ऋ । भवः । सम् । अस्वरन् । रुद्राः । गृणन्त । पूर्व्यम् ॥१५७३॥

सामवेद - मन्त्र संख्या : 1573
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 1; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (इन्द्र) विद्यैश्वर्यवन् आचार्य ! (पूर्वपीतये) पूर्वस्य श्रेष्ठस्य विद्यारसस्य पीतिः पानं तस्मै (आयवः) विद्यार्थिनः (स्तोमेभिः) स्तोत्रैः (त्वा) त्वाम् (अभि) अभ्यर्थयन्ति। तवैव निर्देशने (ऋभवः) मेधाविनश्छात्राः (समीचीनासः) परस्परं संगताः सन्तः (समस्वरन्) सस्वरं वेदमन्त्रानुच्चारयन्ति। (रुद्राः) प्राणवन्तो ब्रह्मचारिणः (पूर्व्यम्) पूर्वैः कविभिः ऋषिभिर्वा कृतं स्तोत्रादिकाव्यमपि। [पूर्वैः कृतं पूर्व्यम्। ‘पूर्वैः कृतमिनयौ च’ अ० ४।४।११३ इति यः प्रत्ययः।] (गृणन्त) गायन्ति ॥१॥

भावार्थः - सुयोग्येभ्यो ब्रह्मविद्भ्यो गुरुभ्यः सुयोग्यैः शिष्यैरधीता भौतिकविद्या ब्रह्मविद्या च फलदायिनी जायते ॥१॥

इस भाष्य को एडिट करें
Top