Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1577
ऋषिः - विश्वामित्रो गाथिनः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
इ꣡न्द्रा꣢ग्नी꣣ अ꣡प꣢स꣣स्प꣢꣯र्युप꣣ प्र꣡ य꣢न्ति धी꣣त꣡यः꣢ । ऋ꣣त꣡स्य꣢ प꣣थ्या꣢३ अ꣡नु꣢ ॥१५७७॥
स्वर सहित पद पाठइ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । अ꣡प꣢꣯सः । प꣡रि꣢꣯ । उ꣡प꣢꣯ । प्र । य꣣न्ति । धीत꣡यः꣢ । ऋ꣣त꣡स्य꣢ । प꣣थ्याः꣢ । अ꣡नु꣢꣯ ॥१५७७॥
स्वर रहित मन्त्र
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या३ अनु ॥१५७७॥
स्वर रहित पद पाठ
इन्द्राग्नी । इन्द्र । अग्नीइति । अपसः । परि । उप । प्र । यन्ति । धीतयः । ऋतस्य । पथ्याः । अनु ॥१५७७॥
सामवेद - मन्त्र संख्या : 1577
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि जीवात्मपरमात्मविषय उपदिश्यते।
पदार्थः -
हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (धीतयः) ध्यानकर्तारो जनाः (ऋतस्य) सत्यस्य (पथ्याः) मार्गान् (अनु) अनुसरन्तः (अपसः परि) धर्मकर्मणां पारं प्राप्य, युवाम् (उप प्र यन्ति) उप प्राप्नुवन्ति ॥३॥२
भावार्थः - जीवने सत्यमार्गानुगमनं परमेश्वरप्राप्तिश्चेति मनुष्यस्य लक्ष्यम् ॥३॥
इस भाष्य को एडिट करें