Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1579
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
6
श꣣ग्ध्यू꣢३꣱षु꣡ श꣢चीपत꣣ इ꣢न्द्र꣣ वि꣡श्वा꣢भिरू꣣ति꣡भिः꣢ । भ꣢गं꣣ न꣡ हि त्वा꣢꣯ य꣣श꣡सं꣢ वसु꣣वि꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मसि ॥१५७९॥
स्वर सहित पद पाठश꣣ग्धि꣢ । उ꣣ । सु꣢ । श꣣चीपते । शची । पते । इ꣡न्द्र꣢꣯ । वि꣡श्वा꣢꣯भिः । ऊ꣣ति꣡भिः꣢ । भ꣡ग꣢꣯म् । न । हि । त्वा꣣ । यश꣡स꣢म् । व꣣सुवि꣡द꣢म् । व꣣सु । वि꣡द꣢꣯म् । अ꣡नु꣢꣯ । शू꣣र । च꣡रा꣢꣯मसि ॥१५७९॥
स्वर रहित मन्त्र
शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः । भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१५७९॥
स्वर रहित पद पाठ
शग्धि । उ । सु । शचीपते । शची । पते । इन्द्र । विश्वाभिः । ऊतिभिः । भगम् । न । हि । त्वा । यशसम् । वसुविदम् । वसु । विदम् । अनु । शूर । चरामसि ॥१५७९॥
सामवेद - मन्त्र संख्या : 1579
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 3; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २५३ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र स्वान्तरात्मा प्रबोध्यते।
पदार्थः -
हे (शचीपते) प्रज्ञायाः कर्मणश्च स्वामिन् (इन्द्र) मदीय अन्तरात्मन् ! त्वम् (विश्वाभिः) सर्वाभिः (ऊतिभिः) प्रगतिभिः (उ सु) सम्यक् (शग्धि) शक्तो भव। हे (शूर) वीर ! (भगं न) सूर्यमिव (यशसम्) यशस्विनम्, (वसुविदम्) ऐश्वर्याणां प्रापकम् (त्वा) त्वाम्, वयम् (अनु चरामसि) सेवामहे ॥१॥ अत्रोपमालङ्कारः ॥१॥
भावार्थः - स्वात्मानं प्रबोध्यैव मनुष्या उन्नतिं कर्तुं शक्नुवन्ति ॥१॥
इस भाष्य को एडिट करें