Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1594
ऋषिः - गोतमो राहूगणः देवता - मरुतः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

श꣣शमान꣡स्य꣢ वा नरः꣣ स्वे꣡द꣢स्य सत्यशवसः । वि꣣दा꣡ काम꣢꣯स्य꣣ वे꣡न꣢तः ॥१५९४॥

स्वर सहित पद पाठ

श꣣शमान꣡स्य꣢ । वा꣣ । नरः । स्वे꣡द꣢꣯स्य । स꣣त्यशवसः । सत्य । शवसः । विद꣢ । का꣡म꣢꣯स्य । वे꣡न꣢꣯तः ॥१५९४॥


स्वर रहित मन्त्र

शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा कामस्य वेनतः ॥१५९४॥


स्वर रहित पद पाठ

शशमानस्य । वा । नरः । स्वेदस्य । सत्यशवसः । सत्य । शवसः । विद । कामस्य । वेनतः ॥१५९४॥

सामवेद - मन्त्र संख्या : 1594
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (नरः) नेतारः मरुतो विद्वांसो जनाः ! यूयम् (शशमानस्य) द्रुतगत्या प्रयतमानस्य। [शश प्लुतगतौ, भ्वादिः।] (स्वेदस्य) स्विन्नगात्रस्य, (सत्यशवसः) सत्यबलस्य, (वेनतः वा) महत्त्वाकाङ्क्षायुक्तस्य च जनस्य। [वेनतिः कान्तिकर्मा। निघं० २।६। वा इति समुच्चये। निरु० १।५।] (कामस्य) कामम् अभीप्सितम्। [अत्र कर्मणि षष्ठी।] (विद) जानीत, पूरयत च। [संहितायां द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः] ॥१॥२

भावार्थः - परिश्रमेण स्विन्नगात्रस्य सत्यविज्ञानस्य सत्यबलस्य सत्यकर्मण एव जनस्य महत्त्वाकाङ्क्षाः सिध्यन्ति, नालसस्य ॥१॥

इस भाष्य को एडिट करें
Top