Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1596
ऋषिः - वामदेवो गौतमः देवता - द्यावापृथिव्यौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

प्र꣢ वां꣣ म꣢हि꣣ द्य꣡वी꣢ अ꣣भ्यु꣡प꣢स्तुतिं भरामहे । शु꣢ची꣣ उ꣢प꣣ प्र꣡श꣢स्तये ॥१५९६॥

स्वर सहित पद पाठ

प्र꣢ । वा꣣म् । म꣡हि꣢꣯ । द्यवी꣢꣯इ꣡ति꣢ । अ꣣भि꣢ । उ꣡प꣢꣯स्तुतिम् । उ꣡प꣢꣯ । स्तु꣣तिम् । भरामहे । शु꣢ची꣢꣯इति । उ꣡प꣢꣯ । प्र꣡श꣢꣯स्तये । प्र । श꣣स्तये ॥१५९६॥


स्वर रहित मन्त्र

प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे । शुची उप प्रशस्तये ॥१५९६॥


स्वर रहित पद पाठ

प्र । वाम् । महि । द्यवीइति । अभि । उपस्तुतिम् । उप । स्तुतिम् । भरामहे । शुचीइति । उप । प्रशस्तये । प्र । शस्तये ॥१५९६॥

सामवेद - मन्त्र संख्या : 1596
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 4; मन्त्र » 1
Acknowledgment

पदार्थः -
हे द्यावापृथिवी ! हे आत्मबुद्धी ! वयम् (प्रशस्तये) प्रशस्तिं प्राप्तुम् (द्यवी) द्योतमाने, (शुची) पवित्रे (वाम् अभि) युवां प्रति (महि) बहु (उपस्तुतिम्) गुणकर्मप्रशंसाम् (प्र उप भरामहे) प्रकर्षेण उपाहरामः ॥१॥२

भावार्थः - आत्मा बुद्धिश्चोभावपि स्वं स्वं महत्त्वं धारयतः। ताभ्यामुपकारः सर्वैर्ग्राह्यः ॥१॥

इस भाष्य को एडिट करें
Top