Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1627
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - विष्णुः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

व꣡ष꣢ट् ते विष्णवा꣣स꣡ आ कृ꣢꣯णोमि꣣ त꣡न्मे꣢ जुषस्व शिपिविष्ट ह꣣व्य꣢म् । व꣡र्ध꣢न्तु त्वा सु꣣ष्टु꣢त꣣यो गि꣡रो꣢ मे यू꣣यं꣡ पा꣢त स्व꣣स्ति꣢भिः꣣ स꣡दा꣢ नः ॥१६२७॥

स्वर सहित पद पाठ

व꣡ष꣢꣯ट् । ते꣣ । विष्णो । आसः꣢ । आ । कृ꣣णोमि । त꣢त् । मे꣣ । जुषस्व । शिपिविष्ट । शिपि । विष्ट । हव्य꣢म् । व꣡र्ध꣢꣯न्तु । त्वा꣣ । सुष्टुत꣡यः꣢ । सु꣣ । स्तुत꣡यः꣢ । गि꣡रः꣢꣯ । मे꣣ । यूय꣢म् । पा꣣त । स्व꣣स्ति꣡भिः꣢ । सु । अस्ति꣡भिः꣢ । स꣡दा꣢꣯ । नः꣣ ॥१६२७॥


स्वर रहित मन्त्र

वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥१६२७॥


स्वर रहित पद पाठ

वषट् । ते । विष्णो । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिविष्ट । शिपि । विष्ट । हव्यम् । वर्धन्तु । त्वा । सुष्टुतयः । सु । स्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिभिः । सु । अस्तिभिः । सदा । नः ॥१६२७॥

सामवेद - मन्त्र संख्या : 1627
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (विष्णो) सर्वान्तर्यामिन् जगदीश ! अहम् (आसः) आस्यात्(ते) तुभ्यम् (वषट्) स्तुतिम् (आकृणोमि) आकरोमि। हे(शिपिविष्ट) तेजोभिरावृत परमेश ! (तत् मे हव्यम्) तद् मम समर्पणम्, त्वम् (जुषस्व) प्रीत्या स्वीकुरु। (मे) मम (सुष्टुतयः)शोभनस्तुतिकाः (गिरः) वाचः (त्वा वर्धन्तु) त्वन्महिमानं वर्धयन्तु, प्रचारयन्तु। हे विष्णो जगदीश्वर ! (यूयम् स्वस्तिभिः)कल्याणपरम्पराभिः (नः) अस्मान् (सदा) सर्वदा (पात) रक्षत ॥३॥

भावार्थः - जने जने जगदीशस्य महिम्नः प्रचारेण सर्वे धार्मिका भूत्वा स्वस्य समाजस्य च जीवनमुन्नयन्तु ॥३॥ अस्मिन् खण्डे जगदीश्वरस्याचार्यस्योपास्योपासकसम्बन्धस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति।

इस भाष्य को एडिट करें
Top