Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1638
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
6
अ꣡नु꣢ ते꣣ शु꣡ष्मं꣢ तु꣣र꣡य꣢न्तमीयतुः क्षो꣣णी꣢꣫ शिशुं꣣ न꣢ मा꣣त꣡रा꣢ । वि꣡श्वा꣢स्ते꣣ स्पृ꣡धः꣢ श्नथयन्त म꣣न्य꣡वे꣢ वृ꣣त्रं꣡ यदि꣢न्द्र꣣ तू꣡र्व꣢सि ॥१६३८॥
स्वर सहित पद पाठअ꣡नु꣢꣯ । ते । शु꣡ष्म꣢꣯म् । तु꣣र꣡य꣢न्तम् । ई꣣यतुः । क्षोणी꣡इति꣢ । शि꣡शु꣢꣯म् । न । मा꣣त꣡रा꣢ । वि꣡श्वाः꣢꣯ । ते꣣ । स्पृ꣡धः꣢꣯ । श्न꣣थयन्त । मन्य꣡वे꣢꣯ । वृ꣣त्र꣢म् । यत् । इ꣣न्द्र । तू꣡र्व꣢꣯सि ॥१६३८॥
स्वर रहित मन्त्र
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥१६३८॥
स्वर रहित पद पाठ
अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणीइति । शिशुम् । न । मातरा । विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि ॥१६३८॥
सामवेद - मन्त्र संख्या : 1638
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि परमात्मानं जीवात्मानं चाह।
पदार्थः -
हे (इन्द्र) शूर परमात्मन् जीवात्मन् वा ! (ते) तव (तुरयन्तम्)त्वरां कुर्वन्तम् (शुष्मम्) बलम् (क्षोणी) द्यावापृथिव्यौ मनोबुद्धी वा (अनु ईयतुः) अनुसरतः। कथमिव ? (तुरयन्तम्) वेगेन गच्छन्तम् (शिशुम् न) बालकम् यथा (मातरा)मातापितरौ। यथा शिशोरनुसरणेन मातापितरौ कमप्यमन्दमानन्दमनुभवतस्तथैव परमात्मबलानुधावनेन द्यावापृथिव्यौ जीवात्मबलानुधावनेन च मनोबुद्धी विशिष्टां शक्तिं प्राप्नुत इत्यर्थः। हे (इन्द्र) परमात्मन् जीवात्मन् वा ! (यत्) यदा, त्वम् (वृत्रम्) कामादिशत्रुम् विघ्नसमूहं वा(तूर्वसि) हंसि, [तूर्वी हिंसार्थः भ्वादिः।] तदा (ते) तव (मन्यवे) तेजसे, तेजःसम्मुखमित्यर्थः। [मन्युः मन्यतेः दीप्तिकर्मणः। निरु० १०।२९।] (विश्वाः) सर्वाः (स्पृधः) शत्रुसेनाः विघ्नसेनाः वा (श्नथयन्त) हतप्राया दुर्बला भवन्ति। [श्नथतिः हन्तिकर्मा। निघं० २।१९] ॥२॥२
भावार्थः - द्यावापृथिव्यादिकं सर्वं परमात्मबलेनैव बलवद् दृश्यते, तथैव देहस्थं मनोबुद्ध्यादिकं जीवात्मबलेन बलभद् भवति। मनसि परमात्मचिन्तनेन स्वान्तरात्मनश्चोद्बोधनेन सर्वे विघ्ना बाह्याभ्यन्तराः शत्रवश्च समूलमुन्मूलयितुं शक्यन्ते ॥२॥ अस्मिन् खण्डे उपास्योपासकयोर्जीवात्मनः प्राणस्य परमात्मन आचार्यस्य नृपतेश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इस भाष्य को एडिट करें