Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1639
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
य꣣ज्ञ꣡ इन्द्र꣢꣯मवर्धय꣣द्य꣢꣯द्भूमिं꣣ व्य꣡व꣢र्तयत् । च꣣क्राण꣡ ओ꣢प꣣शं꣢ दि꣣वि꣢ ॥१६३९॥
स्वर सहित पद पाठय꣣ज्ञः꣢ । इ꣡न्द्र꣢꣯म् । अ꣣वर्धयत् । य꣢त् । भू꣡मि꣢꣯म् । व्य꣡व꣢꣯र्तयत् । वि । अ꣡व꣢꣯र्तयत् । च꣣क्राणः꣢ । ओ꣣पश꣢म् । ओ꣣प । श꣢म् । दि꣣वि꣢ ॥१६३९॥
स्वर रहित मन्त्र
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवि ॥१६३९॥
स्वर रहित पद पाठ
यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । व्यवर्तयत् । वि । अवर्तयत् । चक्राणः । ओपशम् । ओप । शम् । दिवि ॥१६३९॥
सामवेद - मन्त्र संख्या : 1639
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १२१ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषय उच्यते।
पदार्थः -
(यज्ञः) परमात्संगमरूपो यागः (इन्द्रम्) जीवात्मानम्(अवर्धयत्) वर्धयति, शक्तिमन्तं करोति, (यत्) यस्मात् सः(दिवि) द्योतनात्मके परमात्मनि (ओपशम्) निवासम्(चक्राणः) कुर्वाणः (भूमिम्) भूम्युपलक्षितां पार्थिवां तनूम्(व्यवर्तयत्) विवर्तयति, सम्यक् सञ्चालयति ॥१॥
भावार्थः - परमात्मनः सकाशादेव बलं प्राप्य जीवात्मा देहराज्यस्य मस्तिष्कसंस्थानं रक्तसंस्थानं पाचनसंस्थानं श्वाससंस्थानं ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि सर्वमपि सम्यक् सञ्चालयितुं क्षमते, अतः स तेन कदापि न विस्मरणीयः ॥१॥
इस भाष्य को एडिट करें