Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1656
ऋषिः - शुनःशेप आजीगर्तिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
12
नी꣢꣯व शी꣣र्षा꣡णि꣢ मृढ्वं꣣ म꣢ध्य꣣ आ꣡प꣢स्य तिष्ठति । शृ꣡ङ्गे꣢भिर्द꣣श꣡भि꣢र्दि꣣श꣢न् ॥१६५६
स्वर सहित पद पाठनि꣢ । इ꣣व । शीर्षा꣡णि꣢ । मृ꣣ढ्वम् । म꣡ध्ये꣢꣯ । आ꣡प꣢꣯स्य । ति꣣ष्ठति । शृ꣡ङ्गे꣢꣯भिः । द꣣श꣡भिः꣢ । दि꣣श꣢न् ॥१६५६॥
स्वर रहित मन्त्र
नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति । शृङ्गेभिर्दशभिर्दिशन् ॥१६५६
स्वर रहित पद पाठ
नि । इव । शीर्षाणि । मृढ्वम् । मध्ये । आपस्य । तिष्ठति । शृङ्गेभिः । दशभिः । दिशन् ॥१६५६॥
सामवेद - मन्त्र संख्या : 1656
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मनो व्यापकत्वं वर्णयति।
पदार्थः -
इन्द्रो जगदीश्वरः (दशभिः) दशसंख्यकैः (शृङ्गेभिः) पृथिव्यप्तेजोवाय्वाकाशैः स्थूलभूतैः गन्धरसरूपस्पर्शशब्दै-स्तद्विषयैश्च (दिशन्) जगत्प्रपञ्चम् अतिसृजन् (आपस्य) व्याप्तस्य ब्रह्माण्डस्य (मध्ये) अभ्यन्तरे (तिष्ठति) विद्यमानोऽस्ति। हे मनुष्याः ! यूयम् तत्सत्तायां विश्वस्य(शीर्षाणि) स्वकीयानि मस्तिष्काणि (नि मृढ्वम् इव) संमार्जयध्वम्। [इवशब्दः पूरणे] ॥३॥
भावार्थः - चर्मचक्षुर्भिर्जगत्सञ्चालकं कमप्यपश्यन्तो ये जनाः परमेश्वरसत्तायां न विश्वसन्ति ते वृथैव विभ्राम्यन्ति। ये तु श्रद्धादीपं प्रज्वालयन्ति ते कणे कणे परमेश्वरं पश्यन्ति ॥३॥ अस्मिन् खण्डे परमात्मनो नृपतेर्योगिनश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
इस भाष्य को एडिट करें