Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 167
ऋषिः - कुसीदी काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
8

आ꣡ तू न꣢꣯ इन्द्र क्षु꣣म꣡न्तं꣢ चि꣣त्रं꣢ ग्रा꣣भ꣡ꣳ सं गृ꣢꣯भाय । म꣣हाहस्ती꣡ दक्षि꣢꣯णेन ॥१६७॥

स्वर सहित पद पाठ

आ꣢ । तु । नः꣢ । इन्द्र । क्षुम꣡न्त꣢म् । चि꣣त्र꣢म् । ग्रा꣣भ꣢म् । सम् । गृ꣣भाय । महाहस्ती꣢ । म꣣हा । हस्ती꣢ । द꣡क्षि꣢꣯णेन ॥१६७॥


स्वर रहित मन्त्र

आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभꣳ सं गृभाय । महाहस्ती दक्षिणेन ॥१६७॥


स्वर रहित पद पाठ

आ । तु । नः । इन्द्र । क्षुमन्तम् । चित्रम् । ग्राभम् । सम् । गृभाय । महाहस्ती । महा । हस्ती । दक्षिणेन ॥१६७॥

सामवेद - मन्त्र संख्या : 167
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

पदार्थः -
प्रथमः—राजपरः। हे (इन्द्र) परमैश्वर्यशालिन् राजन् ! (महाहस्ती२) महाशुण्डो गज इव महाभुजः त्वम् (तु) क्षिप्रम् (दक्षिणेन) दक्षिणहस्तेन (नः) अस्मभ्यम् (क्षुमन्तम्३) प्रशस्तान्नयुक्तम्। क्षु इत्यन्ननाम। निघं० २।७। (चित्रम्४) अद्भुतम् (ग्राभम्५) ग्राह्यं धनम्। गृह्यते इति ग्राभः। हृग्रहोर्भश्छन्दसि इति वार्तिकेन हस्य भत्वम्। (आ) समन्तात् (सं गृभाय) सं गृहाण। ग्रह उपादाने धातोः छन्दसि शायजपि अ० ३।१।८४ इति श्नः शायजादेशः। हस्य भत्वम् ॥ अथ द्वितीयः—परमात्मपरः। हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! त्वम् (तु) क्षिप्रमेव (नः) अस्मभ्यं दातुम् (क्षुमन्तम्) भौतिकधनान्नादियुक्तम् (चित्रम्) अद्भुतम् (ग्राभम्) ग्राह्यम् अध्यात्मसंपद्रूपं धनम् (आ) समन्तात् (संगृभाय) संगृहाण, यथा (महाहस्ती) विशालभुजः कश्चिन्मनुष्यः (दक्षिणेन) दक्षिणहस्तेन वस्तूनि संगृह्णाति। यद्वा, यथा (महाहस्ती) महनीयकिरणः हिरण्यपाणिः सविता सूर्यः (दक्षिणेन) समृद्धेन स्वकिरणजालेन भूमिष्ठानि जलानि संगृह्णाति। यद्वा, यथा (महाहस्ती) महागजः (दक्षिणेन) बलवता स्वकीयेन शुण्डादण्डेन खाद्यपेयादीनि वस्तूनि संगृह्णाति ॥३॥ अत्र श्लेषालङ्कारः। महाहस्ती इति च लुप्तोपमम् ॥३॥

भावार्थः - परमेश्वरो राष्ट्रस्य राजा च सर्वान् प्रजाजनान् पुरुषार्थिनो विधाय प्रभूतधनधान्यसम्पन्नान् विद्यावतो धार्मिकान् योगैश्वर्ययुक्ताँश्च विदधातु ॥३॥

इस भाष्य को एडिट करें
Top