Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1671
ऋषिः - मेधातिथिः काण्वः
देवता - विष्णुः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
वि꣢ष्णोः꣣ क꣡र्मा꣢णि पश्यत꣣ य꣡तो꣢ व्र꣣ता꣡नि꣢ पस्प꣣शे꣢ । इ꣡न्द्र꣢स्य꣣ यु꣢ज्यः꣣ स꣡खा꣢ ॥१६७१॥
स्वर सहित पद पाठवि꣡ष्णोः꣢꣯ । क꣡र्मा꣢꣯णि । प꣣श्यत । य꣡तः꣢꣯ । व्र꣣ता꣡नि꣢ । प꣣स्पशे । इ꣡न्द्र꣢꣯स्य । यु꣡ज्यः꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ ॥१६७१॥
स्वर रहित मन्त्र
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥१६७१॥
स्वर रहित पद पाठ
विष्णोः । कर्माणि । पश्यत । यतः । व्रतानि । पस्पशे । इन्द्रस्य । युज्यः । सखा । स । खा ॥१६७१॥
सामवेद - मन्त्र संख्या : 1671
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेश्वरस्य महत्त्वं वर्णयति।
पदार्थः -
(विष्णोः) सर्वान्तर्यामिनो जगदीश्वरस्य (कर्माणि) जगत्प्रपञ्चसर्जनव्यवस्थापनादीनि कर्माणि, (पश्यत)अवलोकयत, (यतः) यस्मात् कारणात् स तानि कर्तुम्(व्रतानि) संकल्पान् (पस्पशे२) स्पृष्टवान्, गृहीतवान् अस्ति। स जगत्पतिः (इन्द्रस्य) जीवात्मनः (युज्यः) सहयोगी (सखा) सुहृत्, वर्तते इति शेषः ॥३॥३
भावार्थः - यथा व्रती जगदीश्वरो जगत्यस्मिन् महान्ति कर्माणि करोति तथैव तत्सखा जीवोऽपि तस्माद् बलं प्राप्य बहुकार्यक्षमो जायते ॥३॥
इस भाष्य को एडिट करें