Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1685
ऋषिः - विश्वमना वैयश्वः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
9
इ꣡न्द्र꣢ स्थातर्हरीणां꣣ न꣡ कि꣢ष्टे पू꣣र्व्य꣡स्तु꣢तिम् । उ꣡दा꣢नꣳश꣣ श꣡व꣢सा꣣ न꣢ भ꣣न्द꣡ना꣢ ॥१६८५॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । स्था꣣तः । हरीणाम् । न꣢ । किः꣣ । ते । पूर्व्य꣡स्तु꣢तिम् । पू꣣र्व्य꣢ । स्तु꣣तिम् । उ꣢त् । आ꣣नꣳश । श꣡व꣢꣯सा । न । भ꣣न्द꣡ना꣢ ॥१६८५॥
स्वर रहित मन्त्र
इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् । उदानꣳश शवसा न भन्दना ॥१६८५॥
स्वर रहित पद पाठ
इन्द्र । स्थातः । हरीणाम् । न । किः । ते । पूर्व्यस्तुतिम् । पूर्व्य । स्तुतिम् । उत् । आनꣳश । शवसा । न । भन्दना ॥१६८५॥
सामवेद - मन्त्र संख्या : 1685
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरस्य महिमानमाचष्टे।
पदार्थः -
(हरीणाम्) परस्पराकर्षणवतां सूर्यग्रहोपग्रहनक्षत्रादिलोकानां विषयग्रहणशीलानां देहस्थानामिन्द्रियाणां वा (स्थातः) अधिष्ठातः, हे (इन्द्र) जगदीश्वर ! (ते) तव (पूर्व्यस्तुतिम्) श्रेष्ठां स्तुतिम् (न किः) न कोऽपि (शवसा) बलेन (न भन्दना) न कल्याणेन। [भदि कल्याणे सुखे च भ्वादिः। भन्दनेन इति प्राप्ते, ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेराकारादेशः] (उदानंश२) अतिक्रामति ॥२॥
भावार्थः - जगदीश्वरादधिको बलवान् बलप्रदः कल्याणवान् कल्याणकर्ता च जगतीतले कश्चिन्नास्ति ॥२॥
इस भाष्य को एडिट करें