Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1691
ऋषिः - कलिः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
8
व꣣य꣡मे꣢नमि꣣दा꣡ ह्योऽपी꣢꣯पेमे꣣ह꣢ व꣣ज्रि꣡ण꣢म् । त꣡स्मा꣢ उ अ꣣द्य꣡ सव꣢꣯ने सु꣣तं꣢ भ꣣रा꣢ नू꣣नं꣡ भू꣢षत श्रु꣣ते꣢ ॥१६९१॥
स्वर सहित पद पाठव꣣य꣢म् । ए꣣नम् । इदा꣢ । ह्यः । अ꣡पी꣢꣯पेम । इ꣣ह꣢ । व꣣ज्रि꣡ण꣢म् । त꣡स्मै꣢꣯ । उ꣣ । अद्य꣢ । अ꣣ । द्य꣢ । स꣡व꣢꣯ने । सु꣣त꣢म् । भ꣣र । आ꣢ । नू꣣न꣢म् । भू꣣षत । श्रुते꣢ ॥१६९१॥
स्वर रहित मन्त्र
वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् । तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥१६९१॥
स्वर रहित पद पाठ
वयम् । एनम् । इदा । ह्यः । अपीपेम । इह । वज्रिणम् । तस्मै । उ । अद्य । अ । द्य । सवने । सुतम् । भर । आ । नूनम् । भूषत । श्रुते ॥१६९१॥
सामवेद - मन्त्र संख्या : 1691
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 3; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके २७२ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जीवात्मविषय उच्यते।
पदार्थः -
(वयम्) कर्मयोगिनो जनाः (एनम्) एतम् (वज्रिणम्) वाग्वज्रयुक्तं स्वान्तरात्मानम् (इदा) अस्मिन् काले (ह्यः) गते च काले (इह) जीवनयज्ञे (अपीपेम) अवर्धयाम। [ओप्यायी वृद्धौ, प्यायः पी आदेशः।] हे भ्रातः ! त्वमपि (तस्मै उ) तस्मै अन्तरात्मने खलु (अद्य) अस्मिन् दिने (सवने) कर्मयोगयज्ञे(सुतम्) अभिषुतं वीररसम् (भर) अर्पय। हे सखायः ! यूयं सर्वेऽपि (नूनम्) निश्चयेन (श्रुते) शास्त्रज्ञाने, स्वान्तरात्मानम्(आ भूषत) अलङ्कुरुत ॥१॥
भावार्थः - सर्वैर्जनैः स्वान्तरात्मानमुद्बोध्य वीरकर्माणि कर्तव्यानि विविधविद्यानां ज्ञानं च सञ्चेतव्यम् ॥१॥
इस भाष्य को एडिट करें