Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 170
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
8

त्य꣡मु꣢ वः सत्रा꣣साहं꣣ वि꣡श्वा꣢सु गी꣣र्ष्वा꣡य꣢तम् । आ꣡ च्या꣢वयस्यू꣣त꣡ये꣢ ॥१७०॥

स्वर सहित पद पाठ

त्य꣢म् । उ꣣ । वः । सत्रासा꣡ह꣢म् । स꣣त्रा । सा꣡ह꣢꣯म् । वि꣡श्वा꣢꣯सु । गी꣣र्षु꣢ । आ꣡य꣢꣯तम् । आ । य꣣तम् । आ꣢ । च्या꣣वयसि । ऊत꣡ये꣢ ॥१७०॥


स्वर रहित मन्त्र

त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतये ॥१७०॥


स्वर रहित पद पाठ

त्यम् । उ । वः । सत्रासाहम् । सत्रा । साहम् । विश्वासु । गीर्षु । आयतम् । आ । यतम् । आ । च्यावयसि । ऊतये ॥१७०॥

सामवेद - मन्त्र संख्या : 170
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

पदार्थः -
हे स्तोतः ! त्वम् (त्यम् उ) तम् एव (सत्रासाहम्२) सत्रा सत्यमेव सहते मृष्यति नाऽसत्यमिति सत्राषाट्, यद्वा सत्रा सत्येन सहते अभिभवति शत्रून्, यः स सत्राषाट् तम्। सत्रा इति सत्यनाम। निघं० ३।१०। सत्रापूर्वात् षह मर्षणे अभिभवे च इति धातोः छन्दसि सहः। अ० ३।२।६३ इति ण्विः। (विश्वासु) सर्वासु (गीर्षु) वेदवाक्षु (आयतम्) विस्तीर्णम् इन्द्रम् वीरं परमेश्वरं राजानं च, त्वम् स्वात्मशासनाय राष्ट्रशासनाय च (वः) वृणुहि। वृञ् वरणे धातोर्लोडर्थे लुङि मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः। अ० २।४।८० इति च्लेर्लुक्। अडाभावश्छान्दसः। किञ्च (ऊतये) रक्षणाय (आ च्यावयसि) आच्यावय स्वाभिमुखं प्रेरय आवर्जय वा। च्युङ् गतौ, णिचि, लेटि रूपम् ॥६॥ अत्र अर्थश्लेषालङ्कारः ॥६॥

भावार्थः - यथा राष्ट्रस्य प्रगतये रक्षणाय च सुयोग्यो राजा वरणीयो भवति, तथैवात्मनः प्रगतये रक्षणाय च सत्यगुणकर्मस्वभावः परमात्मा वरणीयः ॥६॥

इस भाष्य को एडिट करें
Top