Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 171
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
9

स꣡द꣢स꣣स्प꣢ति꣣म꣡द्भु꣢तं प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । स꣣निं꣢ मे꣣धा꣡म꣢यासिषम् ॥१७१॥

स्वर सहित पद पाठ

स꣡द꣢꣯सः । प꣡ति꣢꣯म् । अ꣡द्भु꣢꣯तम् । अत् । भु꣣तम् । प्रिय꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । स꣣नि꣢म् । मे꣣धा꣢म् । अ꣣यासिषम् ॥१७१॥


स्वर रहित मन्त्र

सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥१७१॥


स्वर रहित पद पाठ

सदसः । पतिम् । अद्भुतम् । अत् । भुतम् । प्रियम् । इन्द्रस्य । काम्यम् । सनिम् । मेधाम् । अयासिषम् ॥१७१॥

सामवेद - मन्त्र संख्या : 171
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

पदार्थः -
प्रथमः—परमात्मपरः। अहम् (अद्भुतम्२) आश्चर्यमयगुणकर्मस्वभावम्, (इन्द्रस्य) शरीराधिष्ठातुर्जीवात्मनः (प्रियम्) प्रेमास्पदम्, (काम्यम्) उपासकानां स्पृहणीयम्, (सनिम्३) कृतानां पापपुण्यरूपाणां कर्मणां फलप्रदातारम्। षण सम्भक्तौ, षणु दाने वा धातोः खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च उ० ४।१४ इत्यनेन इः प्रत्ययः. (सदसः पतिम्) हृदयरूपस्य ब्रह्माण्डरूपस्य वा यज्ञसदनस्य स्वामिनं परमात्मानम्। षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (मेधाम्) धारणावतीं बुद्धिम् (अयासिषम्) याचे। निघण्टौ (३।१९), यामि इत्यस्य याच्ञाकर्मसु पाठात् या धातुर्याचनार्थोऽपि विज्ञेयः। लडर्थे लुङ् ॥ अथ द्वितीयः—सभाध्यक्षपरः। अहम् (अद्भुतम्) इतरापेक्षया विशिष्टगुणकर्मस्वभावम्, अत एव (इन्द्रस्य) परमात्मनः (प्रियम्) स्नेहास्पदम्, (काम्यम्) सर्वैः प्रजाजनैः स्पृहणीयम्, (सनिम्) राष्ट्रे धनस्य संविभक्तारं, प्रजाभ्यः सत्कर्मणां पुरस्कारदातारम्, असत्कर्मणां च यथायोग्यं दण्डदातारं च (सदसः पतिम्४) राष्ट्रसभाया अध्यक्षं राजानाम् (मेधाम्) बुद्धिम् विद्याप्रचारमित्यर्थः, धनं च। मेधा मतौ धीयते। निरु० ३।१९। मेधा इति धननामसु पठितम्। निघं० २।१०। (अयासिषम्) याचे ॥ अथ तृतीयः—आचार्यपरः। अहम् (अद्भुतम्) ज्ञानविज्ञानयोः अपूर्वं निधिम्, (इन्द्रस्य) विद्याप्रचारकस्य राज्ञः (प्रियम्) प्रेमार्हम्, (काम्यम्) सर्वैर्विद्यार्थिभिः स्पृहणीयम्, (सनिम्) विविधविद्यानां व्रतानां च दातारम् (सदसः पतिम्) विद्यार्थिकुलस्याध्यक्षम् आचार्यम् (मेधाम्) विद्याबोधम् (अयासिषम्) याचे ॥७॥५ अत्र श्लेषालङ्कारः ॥७॥

भावार्थः - ये मनुष्या अद्भुतगुणकर्मस्वभावम् अद्भुतज्ञानविज्ञानराशिं न्यायकारिणं प्रियं परमात्मानं, सभाध्यक्षं राजानम्, आचार्यं चोपगच्छन्ति ते मेधाविनः शास्त्रज्ञाः पुण्यकर्त्तारो धनवन्तश्च भूत्वा सुखिनो भवन्ति ॥७॥

इस भाष्य को एडिट करें
Top