Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1707
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

य꣢ उ꣣ग्र꣡ इ꣢व शर्य꣣हा꣢ ति꣣ग्म꣡शृ꣢ङ्गो꣣ न꣡ वꣳस꣢꣯गः । अ꣢ग्ने꣣ पु꣡रो꣢ रु꣣रो꣡जि꣢थ ॥१७०७॥

स्वर सहित पद पाठ

यः꣢ । उ꣡ग्रः꣢ । इ꣣व । शर्यहा꣢ । श꣣र्य । हा꣢ । ति꣣ग्म꣡शृ꣢ङ्गः । ति꣣ग्म꣢ । शृ꣣ङ्गः । न꣡ । व꣡ꣳस꣢꣯गः । अ꣡ग्ने꣢꣯ । पु꣡रः꣢꣯ । रु꣣रो꣡जि꣢थ ॥१७०७॥


स्वर रहित मन्त्र

य उग्र इव शर्यहा तिग्मशृङ्गो न वꣳसगः । अग्ने पुरो रुरोजिथ ॥१७०७॥


स्वर रहित पद पाठ

यः । उग्रः । इव । शर्यहा । शर्य । हा । तिग्मशृङ्गः । तिग्म । शृङ्गः । न । वꣳसगः । अग्ने । पुरः । रुरोजिथ ॥१७०७॥

सामवेद - मन्त्र संख्या : 1707
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (अग्ने) अग्रनायक तेजस्विन् जगदीश ! (यः) यस्त्वम् (उग्रः इव) प्रचण्डः धनुर्धर इव (शर्यहा) शर्याणां हन्तव्यानां कामक्रोधादीनां शत्रूणां योगविघ्नानां व्याधिस्त्यानादीनां च हन्ता, (तिग्मशृङ्गः न) तीक्ष्णकिरणः सूर्य इव (वंसगः) वननीयगतिः संसेव्यश्च सन् (पुरः) शत्रुनगरीः शत्रुदुर्गपङ्क्तीर्वा (रुरोजिथ) भनक्षि। [रुजो भङ्गे, तुदादिः, सामान्यकाले लिट्।] तस्य ते शर्म शरणं वयम् अग्न्म इति पूर्वमन्त्रादाकृष्यते ॥३॥२ अत्रोपमालङ्कारः ॥३॥

भावार्थः - परमेश्वरोपासनया प्राप्तबलो जनः सर्वानान्तरान् शत्रून् योगविघ्नांश्च पराजित्य लक्ष्यं प्रति जागरूकः सन्नभ्युदयं निःश्रेयसं च लभते ॥३॥

इस भाष्य को एडिट करें
Top