Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1709
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

य꣢ इ꣣दं꣡ प्र꣢तिपप्र꣣थे꣢ य꣣ज्ञ꣢स्य꣣꣬ स्व꣢꣯रुत्ति꣣र꣢न् । ऋ꣣तू꣡नुत्सृ꣢꣯जते व꣣शी꣢ ॥१७०९

स्वर सहित पद पाठ

यः꣢ । इ꣡द꣢म् । प्र꣣तिपप्रथे꣢ । प्र꣣ति । पप्रथे꣢ । य꣣ज्ञ꣡स्य꣢ । स्वः꣡ । उ꣣त्तिर꣢न् । उ꣣त् । तिर꣢न् । ऋ꣣तू꣢न् । उत् । सृ꣣जते । वशी꣢ ॥१७०९॥


स्वर रहित मन्त्र

य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् । ऋतूनुत्सृजते वशी ॥१७०९


स्वर रहित पद पाठ

यः । इदम् । प्रतिपप्रथे । प्रति । पप्रथे । यज्ञस्य । स्वः । उत्तिरन् । उत् । तिरन् । ऋतून् । उत् । सृजते । वशी ॥१७०९॥

सामवेद - मन्त्र संख्या : 1709
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(यः) अग्निर्जगदीश्वरः (इदम्) एतद् ब्रह्माण्डम् (प्रतिपप्रथे) विस्तृणाति, अपि च (यज्ञस्य) प्रकाशप्रदातुः आदित्यस्य। [स यः स यज्ञोऽसौ स आदित्यः। श० १४।१।१।६।] (स्वः) प्रकाशम् (उत्तिरन्) विकिरन् (वशी) जगद्व्यवस्थां कामयमानः (ऋतून्) वसन्तग्रीष्मवर्षादीन् (उत्सृजते) निर्मिमीते, तं जगदीश्वरं वयम् ‘अजस्रं घर्मम् ईमहे’ इति पूर्वमन्त्रादाकृष्यते ॥२॥

भावार्थः - अहो ! कीदृशोऽयं महिमा जगत्पतेर्यदसौ सूर्यमुत्पाद्य सर्वं सौरमण्डलं तद्द्वारेण सम्यक् सञ्चालयति ॥२॥

इस भाष्य को एडिट करें
Top