Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1710
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
13
अ꣣ग्निः꣢ प्रि꣣ये꣢षु꣣ धा꣡म꣢सु꣣ का꣡मो꣢ भू꣣त꣢स्य꣣ भ꣡व्य꣢स्य । स꣣म्रा꣢꣫डेको꣣ वि꣡रा꣢जति ॥१७१०॥
स्वर सहित पद पाठअ꣣ग्निः꣢ । प्रि꣣ये꣡षु꣢ । धा꣡म꣢सु । का꣡मः꣢꣯ । भू꣣त꣡स्य꣢ । भ꣡व्य꣢꣯स्य । स꣣म्रा꣢ट् । स꣣म् । रा꣢ट् । ए꣡कः꣢꣯ । वि । रा꣣जति ॥१७१०॥
स्वर रहित मन्त्र
अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य । सम्राडेको विराजति ॥१७१०॥
स्वर रहित पद पाठ
अग्निः । प्रियेषु । धामसु । कामः । भूतस्य । भव्यस्य । सम्राट् । सम् । राट् । एकः । वि । राजति ॥१७१०॥
सामवेद - मन्त्र संख्या : 1710
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 18; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मनः सम्राट्त्वं वर्णयति।
पदार्थः -
(भूतस्य) उत्पन्नस्य (भव्यस्य) भाविनि काले उत्पत्स्यमानस्य च (कामः) कामयिता, इच्छाशक्त्या पञ्चभूतैः रचयिता (अग्निः) अग्रणीर्जगदीश्वरः (प्रियेषु) प्रीतिपात्रेषु (धामसु) लोकेषु (एकः) अद्वितीयः (सम्राट्) चक्रवर्ती राजा सन् (वि राजति) विशेषेण शोभते ॥३॥२
भावार्थः - एकः परमेश्वर एव सर्वेषां भूतवर्तमानभव्यपदार्थानां शिल्पी सर्वेषां लोकानां चक्रवर्ती सम्राट् च सन् ब्रह्माण्डस्य सर्वां व्यवस्थां सञ्चालयति ॥३॥ अस्मिन् खण्डे भक्तिकाव्यस्य सूर्यकिरणानां ब्रह्मक्षत्रयोर्जगदीश्वरस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
इस भाष्य को एडिट करें