Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1724
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
4

मा꣢ ते꣣ रा꣡धा꣢ꣳसि꣣ मा꣢ त꣢ ऊ꣣त꣡यो꣢ वसो꣣ऽस्मा꣡न्कदा꣢꣯ च꣣ना꣡ द꣢भन् । वि꣡श्वा꣢ च न उपमिमी꣣हि꣡ मा꣢नुष꣣ व꣡सू꣢नि चर्ष꣣णि꣢भ्य꣣ आ꣢ ॥१७२४॥

स्वर सहित पद पाठ

मा꣢ । ते꣣ । रा꣡धा꣢꣯ꣳसि । मा । ते꣣ । ऊत꣡यः꣢ । व꣣सो । अस्मा꣢न् । क꣡दा꣢꣯ । च꣢ । न꣢ । द꣣भन् । वि꣡श्वा꣢꣯ । च꣣ । नः । उपमिमीहि꣢ । उ꣣प । मिमीहि꣢ । मा꣣नुष । व꣡सू꣢꣯नि । च꣣र्षणि꣡भ्यः꣢ । आ ॥१७२४॥


स्वर रहित मन्त्र

मा ते राधाꣳसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् । विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥१७२४॥


स्वर रहित पद पाठ

मा । ते । राधाꣳसि । मा । ते । ऊतयः । वसो । अस्मान् । कदा । च । न । दभन् । विश्वा । च । नः । उपमिमीहि । उप । मिमीहि । मानुष । वसूनि । चर्षणिभ्यः । आ ॥१७२४॥

सामवेद - मन्त्र संख्या : 1724
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 1; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (वसो) वासयितः जगदीश्वर आचार्य वा ! (मा) नैव (ते) तव (राधांसि) अहिंसासत्यादीनि ऐश्वर्याणि, (मा) नापि च (ते) तव (ऊतयः) रक्षाः (अस्मान्) त्वदुपासकान् त्वच्छिष्यांश्च (कदा चन) कदापि (आदभन्) वञ्चितान् कुर्वन्तु। हे (मानुष) मनुर्भ्यः मनुष्येभ्यः हितप्रद ! (चर्षणिभ्यः नः) मानवेभ्यः अस्मभ्यम् त्वम् (विश्वा च वसूनि) विश्वानि च ऐश्वर्याणि धनधान्यविद्यादीर्घायुष्याभ्युदयनिःश्रेयसादीनि (आ उपमिमीहि) समन्ततः उपप्रापय। [आदभन्, आङ्पूर्वो दभु दम्भे, लेटि प्रथमबहुवचने रूपम्। मिमीहि, माङ् माने शब्दे च, जुहोत्यादिः] ॥२॥२

भावार्थः - परमात्मानमाचार्यं च संसेव्य सर्वाणि दिव्यैश्वर्याणि सर्वा योगविभूतयः सकलानि रक्षणानि च जनैः प्राप्तव्यानि ॥३॥ अस्मिन् खण्डे जीवात्मनः परमात्मन उपासकानां गुरुशिष्ययोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top