Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1726
ऋषिः - वामदेवो गौतमः देवता - उषाः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣡श्वे꣢व चि꣣त्रा꣡रु꣢षी मा꣣ता꣡ गवा꣢꣯मृ꣣ता꣡व꣢री । स꣡खा꣢ भूद꣣श्वि꣡नो꣢रु꣣षाः꣡ ॥१७२६॥

स्वर सहित पद पाठ

अ꣡श्वा꣢꣯ । इ꣣व । चित्रा꣢ । अ꣡रु꣢꣯षी । मा꣣ता꣢ । ग꣡वा꣢꣯म् । ऋ꣣ता꣡व꣢री । स꣡खा꣢꣯ । स । खा꣣ । भूत् । अश्वि꣡नोः꣢ । उ꣣षाः꣢ ॥१७२६॥


स्वर रहित मन्त्र

अश्वेव चित्रारुषी माता गवामृतावरी । सखा भूदश्विनोरुषाः ॥१७२६॥


स्वर रहित पद पाठ

अश्वा । इव । चित्रा । अरुषी । माता । गवाम् । ऋतावरी । सखा । स । खा । भूत् । अश्विनोः । उषाः ॥१७२६॥

सामवेद - मन्त्र संख्या : 1726
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
प्रथमः—प्राकृतिक्या उषसः पक्षे। पश्यत, (अश्वा इव) अतरिक्षव्यापिनी विद्युदिव (चित्रा) चित्रवर्णा, (अरुषी) आरोचमाना। [अरुषीः आरोचनात्। निरु० १२।७।] (गवाम् माता) रश्मीनां जननी, (ऋतावरी) सत्यनियमवती। [अत्र छन्दसीवनिपौ वा०, अ० ५।२।१०९ इति वनिप्। ‘वनो र च’ अ० ४।१।७ इति स्त्रियां ङीष् नकारस्य रेफश्च। ‘अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति ऋतस्य दीर्घान्तादेशः।] (उषाः) प्रभातकान्तिः (अश्विनोः) द्यावापृथिव्योः (सखा) सखी, सहचारिणी (अभूत्) अजायत। [सखिशब्दस्य स्त्रियां सखी इति प्राप्ते, छन्दसि स्त्रियामपि ‘अनङ् सौ’ अ० ७।१।९३ इत्यनङि सखा इति रूपं भवति] ॥ द्वितीयः—दिव्याया उषसः पक्षे। (अश्वा इव) व्यापिनी विद्युदिव (चित्रा) अद्भुता, (अरुषी) अहिंसिका। [रोषति हिनस्तीति रुषी, न रुषी अरुषी। रुष हिंसार्थः, भ्वादिः।] (गवाम् माता) अध्यात्मकिरणानां जननी, (ऋतावरी) ऋतमयी (उषाः) ऋतम्भरा प्रज्ञा (अश्विनोः) आत्ममनसोः (सखा) सहचारिणी (अभूत्) अजायत ॥२॥२ अत्र श्लेष उपमा चालङ्कारः ॥२॥

भावार्थः - यथा सत्यनियमेन प्रत्यहमुदीयमाना दीप्तिमती प्राकृतिक्युषा द्यावापृथिव्यौ व्याप्नोति तथैव योगमार्गे सत्यमयी ऋतम्भरा प्रज्ञा योगसाधकस्यात्ममनसी व्याप्नोति ॥२॥

इस भाष्य को एडिट करें
Top