Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1735
ऋषिः - गोतमो राहूगणः देवता - अश्विनौ छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
8

ए꣢꣫ह दे꣣वा꣡ म꣢यो꣣भु꣡वा꣢ द꣣स्रा꣡ हिर꣢꣯ण्यवर्त्तनी । उ꣣षर्बु꣡धो꣢ वहन्तु꣣ सो꣡म꣢पीतये ॥१७३५॥

स्वर सहित पद पाठ

आ꣢ । इ꣣ह꣢ । दे꣣वा꣢ । म꣣योभुवा । मयः । भु꣡वा꣢꣯ । द꣣स्रा꣢ । हि꣡र꣢꣯ण्यवर्त्तनी । हि꣡र꣢꣯ण्य । व꣣र्त्तनीइ꣡ति꣢ । उ꣣षर्बु꣡धः꣢ । उ꣣षः । बु꣡धः꣢꣯ । व꣣हन्तु । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥१७३५॥


स्वर रहित मन्त्र

एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी । उषर्बुधो वहन्तु सोमपीतये ॥१७३५॥


स्वर रहित पद पाठ

आ । इह । देवा । मयोभुवा । मयः । भुवा । दस्रा । हिरण्यवर्त्तनी । हिरण्य । वर्त्तनीइति । उषर्बुधः । उषः । बुधः । वहन्तु । सोमपीतये । सोम । पीतये ॥१७३५॥

सामवेद - मन्त्र संख्या : 1735
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(उषर्बुधः) ये उषसि बुध्यन्ते बोधं प्राप्नुवन्ति ते जनाः (सोमपीतये) सोमस्य सुखस्वास्थ्यदीर्घायुष्यशान्त्यादेः पीतिः रक्षणं तस्मै (इह) देहे (देवा) देवौ, गमनागमनकारिणौ, (मयोभुवा) सुखस्य भावयितारौ, (दस्रा) दोषाणामुपक्षेतारौ, (हिरण्यवर्तनी) हिरण्यं शारीरं मानसं च तेजो वर्तयन्तौ अश्विनौ प्राणापानौ (आ वहन्तु) आनयन्तु, प्राणायामं साध्नुवन्त्विति भावः ॥२॥

भावार्थः - योगाङ्गेन प्राणायामेन सर्वान् शारीरान् मानसांश्च दोषान् दग्ध्वा योगसिद्धिं प्राप्य जनैरभ्युदयनिःश्रेयसे साधनीये ॥२॥

इस भाष्य को एडिट करें
Top