Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1734
ऋषिः - गोतमो राहूगणः
देवता - अश्विनौ
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
7
अ꣡श्वि꣢ना व꣣र्ति꣢र꣣स्म꣡दा गोम꣢꣯द्दस्रा꣣ हि꣡र꣢ण्यवत् । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतम् ॥१७३४॥
स्वर सहित पद पाठअ꣡श्वि꣢꣯ना । व꣣र्तिः꣢ । अ꣣स्म꣢त् । आ । गो꣡म꣢꣯त् । द꣣स्रा । हि꣡र꣢꣯ण्यवत् । अ꣣र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣣च्छतम् ॥१७३४॥
स्वर रहित मन्त्र
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथꣳ समनसा नि यच्छतम् ॥१७३४॥
स्वर रहित पद पाठ
अश्विना । वर्तिः । अस्मत् । आ । गोमत् । दस्रा । हिरण्यवत् । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम् ॥१७३४॥
सामवेद - मन्त्र संख्या : 1734
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ प्राणापानविषयमाह।
पदार्थः -
हे (दस्रा) दस्रौ दोषाणामुपक्षेतारौ (अश्विना) शरीरव्याप्तौ प्राणापानौ ! (अस्मत्) अस्माकम्। [अत्र ‘सुपां सुलुक्’ अ० ७।१।३९ इति षष्ठ्या लुक्।] (वर्तिः१) गृहम् (आ) समन्तात् (गोमत्) गोभिर्युक्तम्, (हिरण्यवत्) सुवर्णादिभिर्धनैश्च युक्तं भवेदिति हेतोः, युवाम् (समनसा) समनसौ मनसा संयुक्तौ भूत्वा (रथम्) अस्माकं देहरूपं शकटम् (अर्वाग्) अनुकूलं यथा स्यात्तथा (नि यच्छतम्) नियन्त्रितं कुरुतम् ॥१॥
भावार्थः - देहे स्वस्थे सत्येव पुरुषार्थं कृत्वा गोहिरण्यादीनि धनानि प्राप्तुं शक्यन्ते, स्वास्थ्यप्राप्तेश्च प्राणायामो मुख्यं साधनम् ॥१॥
इस भाष्य को एडिट करें